उपानत्, [ह्] स्त्री, (उपनह्येते पादावनया । उप + नह + क्विप् । “नहिवृतिवृषीति” । ७३ । ११६ । पूर्व्वपदस्य दीर्घः ।) चर्म्मादिनिर्म्मितपादकोषः । जुता इति भाषा । तत्पर्य्यायः । पादुका २ पादूः ३ । इत्यमरः ॥ पादव्यतिरेकेणात्मोपानद्वहन- निषेधो यथा, -- “नाक्षैः क्रीडेत् कदाचित्तु स्वयं नोपानहौ वहेत् । शयनस्थो न भुञ्जीत न पाणिस्थं न चासने” ॥ इति मानवे ४ । ७४ । “ग्लहं विना कदाचिदपि परिहासेनापि नाक्षादिभिः क्रीडेत् । स्वयमि- त्यभिधानात् आत्मोपानहौ पादव्यतिरिक्तेन हस्तादिना देशान्तरं न नयेत् । शय्यावस्थितश्च न भुञ्जीत हस्ते च प्रभूतमन्नं कृत्वा क्रमेण न खादेत् । आसने भोजनपात्रं निधाय न भुञ्जीत । इति तट्टीकायां कुल्लूकभट्टः ॥ (यथा नैषघे । १ । १२३ । “कृतावहोरस्य हयादुपानहौ” । “अनारोग्यमनायुष्यं चक्षुषोरुपघातकृत् । पादाभ्यामनुपानद्भ्यां सदा चंक्रमणं नृणाम्” ॥ इति सुश्रुते चिकित्सितस्थाने २४ अध्यायः ॥)
📄 मूल मुद्रित पृष्ठ (1-263-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।