उरोज पु० उरसि जायते जग--ड “जे विभाषा” पा० सप्तम्या लुक् । स्त्रीस्तने “दधत्युरोजद्वयमुर्वऽशीतलम्” “रेजाते रु- चिरदृशामुरीजकुम्भौ” माघः स्तनादिकं सूक्ष्मरूपेण जन्म- काले उत्पन्नमपि यौवने उद्भिद्यते । यथाह भाव- प्रका० । “बालानां शुक्रमस्त्येव किन्तु सौक्ष्म्यान्न दृश्यते । तेषां तदेव तारुण्ये पुष्टत्वाद्व्यक्तिमेष्यति कुसुमानां प्रफुल्लानां गन्धः प्रादुर्भवेद्यथा । रोमराज्यादयः पुंसां नारीणामपि यौवने । ज्ञायन्ते तत्तयोर्भेदो ज्ञेयो व्याख्यानतः स च” । तथा च पुंसां रोमराजीश्मश्रुप्रभृतयः नारीणां तु रोमराजीस्तनस्तन्यार्त्तवप्रभृतयः” । आर्त्त- वस्तनोद्भेदकालश्च एकादशवर्षादुत्तरः स्मृतावुक्तः । “अष्टवर्षा भवेद्गौरी नववर्षा तु रोहिणी । दशमे कन्थका- प्रोक्ता तत ऊर्द्धं रजस्वला” उ० त० स्मृतिः । इदमपि सम्भावितविषयम् धातुभेदेन तत उत्तरमपि भवतीति लोके दृश्यते सम्भावनाभिया दशमाव्दादर्वाक् देयेति तत्त्वम् । सुश्रुते तु द्वादशवर्षोपरि रजःसम्भव उक्तः । “रसादेव रजः स्त्रीणाम् मासि मासि त्र्यहं स्रवेत् । तद्वर्षाद्- द्वादशादूर्द्ध्वं याति पञ्चाशतः क्षयम्” रजःपदं स्तनोद्भे- दस्याप्युपलक्षणम् । गर्भिण्याः पीनस्तनत्वे दुग्धबहुलत्वे च कारणमुक्तम् भा० प्र० । “गृहीतगर्भाणां स्त्रीणामार्त्तव वहानां स्रोतसां गर्भेणावरोधादार्त्तवं न स्रवति तदेव प्रतिहतमूर्द्ध्वमागतमुपचीयमानमपरां भवति शेषञ्चोर्द्ध्वतर- [] मागतं पयोधरौ याति तस्माद् गर्भिण्याः पीभौच्चौ पयो घरौ भवतः” इति । उरोभूप्रभृतयोऽप्यत्र “उरोभुवा कुम्भ- युगेन जृम्भितम्” नैष० ।
📄 मूल मुद्रित पृष्ठ (1367-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।