🕉️ 23 November 2026, Monday · 06:51:34 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

उर्वशी
urvaśī
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
उर्वशी संज्ञा स्त्री॰ [सं॰] एत दिव्य अप्सरा । स्वर्ग की अप्सरा । यौ॰—उर्वशीतीर्थ । उर्वशीरमण, उर्वशीवल्लभ, उर्वशीसहाय= पुरुरुवा नरेस का नाम ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
उर्वशी f. (fr. उरु and √ 1. अश्, ‘to pervade’, see M.M., Chips, vol. ii, p. 99), ‘widely extending’, N. of the dawn (personified as an Apsaras or heavenly nymph who became the wife of Purū-ravas), RV.; AV. xviii, 3, 23; VS.; ŚBr.; Vikr. &c.
N. of a river, MBh. xii.
📄 मूल मुद्रित पृष्ठ (218,2)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
उर्वशी [उरून् महतोपि अश्नुते वशीकरोति, उरु-अश्-क गौरा˚ ङीष् Tv.] 1 N. of a famous Apsaras or nymph of Indra's heaven who became the wife of Purūravas. [Urvaśī is frequently mentioned in the Ṛgveda; at her sight the seed of Mitra and Varuṇa fell down, from which arose Agastya and Vasiṣṭha; (see Agastya). Being cursed by Mitra and Varuṇa she came down to the world of mortals, and became the wife of Purūravas, whom she chanced to see while descending, and who made a very favourable impression upon her mind. She lived with him for some time, and went up to heaven at the expiration of her curse. Purūravas was sorely grievved at her loss, but succeeded in securing her company once more. She bore him a son named Āyus, and then left him for ever. The account given in the Vikramorvaśīyam differs in many respects, where Indra is represented to have favoured Purūravas with her lifelong company though he had himself cursed her. Mythologically she is said to have sprung from the thigh of the sage Nārāyaṇa, q. v.]. --2 Wish, ardent desire. --Comp. --तीर्थं N. of a sacred place referred to in Bhārata. --रमणः, --सहायः, --वल्लभः N. of Purūravas.
📄 मूल मुद्रित पृष्ठ (0341-c)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
उर्वशी स्त्री उरून् अश्नुते वशीकरोति उरु + अश--क गौरा० ङीष् । स्वर्गवेश्याभेदे । अप्सरोभेदाश्च अप्सरः शब्दे उक्ताः इयञ्च नारायणोरुं भित्त्वा जाता यथोक्तं हरिवं० ८५ अ० “नारायणोरुं निर्भिद्य सम्भूता वरवर्णिनी । ऐलस्य दयिता देवी योषिद्रत्नं किमुर्वशी” ततश्च ऊरुं नारायणोरुं कारणत्वेनाश्नुते प्राप्नोति अश--क ङीष् पृ० ह्रस्वः । इति विग्रहः । इयमेव पुरूरवसःपत्नी आसीत् । “पुत्रोबुध- स्योत्तमवीर्यकर्मा पुरूरवा युस्य सुतो सुदेवः । तथैव पश्चाच्चकमे महात्मा पुरोर्वशीमप्सरसां वरिष्ठाम” १५४ अ० “पुरूरवाः सुतोविद्वानिलायां समपद्यत” इत्युपकम्य “षट् सुता जज्ञिरे चैलादायुर्धीमानमावसुः । दृढायुश्च वनायुश्च शतायुश्चोर्वशीसुताः” भा० आ० ७५ अ० । सा च इन्द्रलोकगतार्ज्जुनस्य समीपे रिरंसया गत्वा तेन प्रत्याख्याता तस्मै शापं ददाविति कथा भा० व० ४६ अ० “तव पित्राभ्यनुज्ञातां स्वयञ्च गृहमागताम् । यस्मान्मां नाभिनन्देथाः क मवाणवशंगताम् । तस्मात्त्वं नर्त्तनः पार्थ! स्त्रीमध्ये मानवर्जितः । अपुमानिति विख्यातः षण्डवद्विचरिष्यसि” २ नदीभेदे उर्वशीतीर्थशब्दे उदा० ।
📄 मूल मुद्रित पृष्ठ (1368,b)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
उर्व्वशी, स्त्री, (उरून् महतोऽपि अश्नुते व्याप्नोति वशीकरोतीति यावत् । यद्वा ऊरुं नारायणस्य महर्षेरूरुप्रदेशं अनुते योनित्वेन व्याप्नोतीति । उरु + अश् + क । गौरादित्वात् ङीष् ।) स्वना- मख्यातस्वर्गवेश्या । इत्यमरः ॥ तस्या उत्पत्तिर्ह रिवंशे । नारायणोरुं निर्मिद्य सम्भूता वरवर्णिनी । मनीषादित्वात् ह्रस्वादिः ॥ (अस्या उत्पत्तिकथा उक्ता भागवते ११ । ४ । ६-१६ । यथा, -- “धर्म्मस्य दक्षदुहितर्य्यजनिष्ट मूर्त्त्यां नारायणो नर ऋषिप्रवरः प्रशान्तः । नैष्कर्म्म्यलक्षणमुवाच चचार कर्म्म योऽद्यापि चास्त ऋषिवर्य्यनिषेविताङ्घ्रिः ॥ इन्द्रो विशङ्क्य मम धाम जिघृक्षतीति कामं न्ययुङ्क्त सगणं स वदर्य्युपाख्यम् । गत्वाप्सरोगणवसन्तसुमन्दवातैः स्त्रीप्रेक्षणेषुभिरविध्यदतन्मतिज्ञः ॥ विज्ञाय शक्रकृतमक्रममादिदेवः प्राह प्रहस्य गतविस्मय एजमानान् । मा भैष्ट भो मदनमारुतदेवबध्वो गृह्णीत नो बलिमशून्यमिमं कुरुध्वम् ॥ इत्थं ब्रुवत्यभयदे नरदेव ! देवाः सव्रीडनम्रशिरसः सघृणं तमूचुः । नैतत् विभो त्वयि परे विकृते विचित्रं स्वारामधीरनिकंरानतपादपद्मे ॥ त्वां सेवतां सुरकृता बहवोऽन्तरायाः स्वौको विलङ्घ्य परमं व्रजतां पदं ते । नान्यम्य वर्हिषि बलीन् ददतः स्वभागान् । धत्ते पदं त्वमविता यदि विघ्नमूर्द्ध्नि ॥ [] क्षुत्त्रिट्त्रिकालगुणमारुतजैह्व्यशैश्न्या- नस्मानपारजलधीनतितीर्य्य केचित् ॥ क्रोधस्य यान्ति विफलस्य वशं पदे गो- र्मज्जन्ति दुञ्चरपथश्च वृथोत्सृजन्ति । इति प्रगृणतां तेषां स्त्रियोऽत्यद्भुतदर्शनाः । दर्शयामास शुश्रूषां स्वर्चिताः कुर्व्वतीर्विभुः ॥ ते देवानुचरा दृष्ट्वा स्त्रियः श्रीरिव रूपिणीः । गन्धेन मुमुहुस्तासां रूपौदार्य्यहतश्रियः ॥ तानह देवदेवेशः प्रणतान् प्रहसन्निव । आसामेकतमां वृङ्ध्वं सवर्णां स्वर्गभूषणाम् ॥ ओमित्यादेशमादाय नत्वा तं सुरवन्दिनः । उर्व्वशीमप्सरःश्रेष्ठां पुरस्कृत्य दिवं ययुः ॥ इन्द्रायानम्य सदसि शृण्वतां त्रिदिवौकसाम् । ऊचुर्नारायणबलं शक्रस्तत्रास विस्मितः” ॥ पुराणान्तरेषु ऋषिप्रवरोऽयं नारायणो निजो- रुदेशं निर्भिद्य अप्सरःश्रेष्ठाभेनामुर्व्वशीं देवगणेभ्यो ददौ इति दृश्यते ॥ इयं हि चन्द्रवंशावतंसे बुधपुत्त्रे पुरूरवसि राजनि बद्धप्रणया बहुकालं तेन सह रेमे । एत- त्कथा उक्ता हरिवंशे २६ अध्याये ॥ यथा, जनमेजय उवाच । “गन्धर्व्वी उर्व्वशी देवी राजानं मानुषं कथम् ॥ देवानुत्सृज्य सम्प्राप्ता तन्मे ब्रूहि बहुश्रुत ॥ वशम्पायन उवाच । ब्रह्मशापाभिभूता सा मानुषं समपद्यत । ऐलन्तु सा वरारोहा समयात्समुपस्थिता ॥ आत्मनः शापमोक्षार्थं समयं सा चकार ह । अनग्नदर्शनञ्चैव सकामायाश्च मैथुनम् ॥ द्वौ मेषौ शयनाभ्यासे सदा बद्धौ च तिष्ठतः । घृतमात्रा तथाहारः कालमेकन्तु पार्थिव ॥ यद्येष समयो राजन् यावत्कालञ्च ते दृढः । तावत्कालन्तु वत्स्यामि कृतः समय एष नः ॥ तस्यास्तं समयं सर्व्वं स राजा समपालयत् । एवं सा वसते तत्र पुरूरवसि भाविनौ ॥ वर्षाण्येकोनषष्टिन्तु तद्भक्ता शापमोहिता । उर्व्वश्यां मानुषस्थायां गन्धर्व्वाश्चिन्तयान्विताः ॥ गन्धर्व्वा ऊचुः । चिन्तयध्वं महाभागा यथा सा तु वराङ्गना । समागच्छेत् पुनर्द्देवानुर्व्वशी स्वर्गभूषणम् ॥ ततो विश्वावसुर्नाम तत्राह वदतां वरः । मया तु समयस्ताभ्यां क्रियमाणः श्रुतः पुरा ॥ व्युत्क्रान्तसमयं सा वै राजानं त्यक्ष्यते यथा । तदहं वेद्म्यशेषेण यथा भेत्स्यत्यसौ नृपः ॥ ससहायो गमिष्यामि युष्माकं कार्य्यसिद्धये । एवमुक्त्वा गतस्तत्र प्रतिष्ठानं महायशाः ॥ निशायामथ चागम्य मेषमेकं जहार सः । मातृवत् वर्त्तते सा तु मेषयोश्चारुहासिनी ॥ गन्धर्व्वागमनं ज्ञात्वा शाप
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "उर्वशी" आता है (1)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬