उल्काचक्र न० रुद्रयामलोक्ते ग्राह्यमन्त्रशुभाशुभज्ञापक चक्रभेदे “उल्काचक्रं सर्वसारं मन्त्रदोषादिनिर्णयम् । मत्स्याकारमूर्द्ध्वमुखं सर्वमन्त्रादिविग्रहम् । स्कन्धदेशावधि नाथ! पुच्छपर्यन्तमेव च । अकाराक्षरमारभ्य द्वादशा- क्षरमातृकम् । विलिखेत् पृष्ठदेशं तु शुभाशुभविशुद्धये । त्रयोदशाक्षरान्नाथ! एकविंशाक्षरान्तकम् । नेतव्यंसाध- कैर्मन्त्रं पृष्ठस्थं समुदाहृतम् । तथा श्रीशुभदं प्रोक्तं क- ण्ठादिपुच्छकान्तकम् । द्वाविंशादि चतुस्त्रिंशदक्षरान्तं शुभं मनुम् । पुच्छस्थं नापि गृह्णीयान्मुखस्थञ्च तथा ध्रुवम् । शीर्षस्थञ्चापि गृह्णीयात् तदक्षरं शृणु प्रभो! । पञ्चत्रिंशादि द्वाचत्वारिंशद्वर्णान्तमेव च । मस्त- कस्थं शुभं प्रोक्तं मुखवर्णान् शृणु प्रभो । त्रिचत्वारिं- शवर्णादि एकपञ्चाशदन्तकम् । मुखस्थमन्त्रं मन्त्री तु न गृह्णीयात् कदाचन । पुच्छस्थं शृणु यत्नेन निरर्थकमहा- र्त्तिदम् । भ्रमो गात्रस्य पीडाभिः देवता कुप्यतेऽनिशम् । द्विपञ्चाशदक्षरादि एकपष्टितमान्तिकान् । वर्णान् पुच्छ- स्थितान् प्रोक्तान् नेत्रस्थान् शृणु वल्लभ! । द्विषष्टितमव- र्ण्णादि चतुषष्ठ्यक्षरान्तकम् । अङ्गं लोचनमन्त्रञ्च त- तोऽन्यत् रसनास्थितम् । तत् सर्वं शुभदं प्रोक्तं एतदन्यतम शृणु । वैष्णवानाञ्च शैवानां शाक्तानां मन्त्रजापनम् । अन्यदेवेषु भक्तानां भक्तिमुक्तिप्रदं नृणाम्” । “एतच्च चतु- षष्टिस्त्रिषष्टिर्वा वर्ण्णाः सम्भवतोमताः । स्वराविंशतिरेकश्च स्पर्शानां पञ्चविंशतिः । यादयश्च स्मृताश्चाष्टौ चत्वारश्च यमास्तथा । अनुस्वारो विसर्गश्च + कँपौ चापि पराश्रितौ । दुस्पृष्टश्चेति विज्ञेयो ऌकारः प्लुत एव च” इति शिक्षो- क्तविभागाभिप्रायं चतुःषष्टेरन्यकथनम् कॢकारस्य दीर्घ- सत्त्वमतेनेति बोध्यम् ।
📄 मूल मुद्रित पृष्ठ (1371,b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।