उष्ट्री, स्त्री, (उष + ष्ट्रन् + ङीष् ।) मृत्तिकाभाण्डः । उष्ट्रस्त्री । इति हेमचन्द्रः ॥ तस्याः क्षीरगुणाः । कुष्ठशोथपित्तार्शःकफाटोपानाहोदरस्थजन्तुगुल्म- श्वासोल्लासनाशित्वम् । तद्दधिगुणाः । अर्शःकुष्ठ- कृमिशूलोदररोगनाशित्वम् । कटुत्वम् । स्वादु- त्वञ्च । तन्नवनीतगुणाः । विपाके शीतलत्वम् । लघुत्वम् । व्रणकृभिकफास्नवातविषनाशित्वञ्च । तद्घृतगुणाः । मधुरत्वम् । विपाके कटुत्वम् । शीतलत्वम् । कुष्ठकृमिविषवातकफगुल्मोदरना- शित्वञ्च । तन्मांसगुणाः ॥ शिशिरत्वम् । त्रिदोष- शमनत्वम् । लघुत्वम् । बलपुष्टिंप्रदत्वम् । रुचि- कारित्वम् । मधुरत्वम् । वीर्य्यवर्द्धनत्वञ्च । इति राजनिर्घण्टः ॥ (अस्या दुग्धगुणा यथा, -- “ईषद्रूक्षोष्णलवणमौष्ट्रकं दीपनं लघु । शस्तं वातकफानाहक्रिमिशोथोदरार्शसाम्” ॥ इति वैद्यकचक्रपाणिकृतद्रव्यगुणे पानीयवर्गे । “औष्ट्रं दुग्धं लघु स्वादु लवणं दीपनन्तथा । क्रिमिकुष्ठकफानाहशोथोदरहरं सरम्” ॥ इति भावप्रकाशस्य पूर्व्वखण्डे द्वितीये भागे ॥ “रूक्षं तथोष्णं लवणं कफस्य निवारणं वातविकारहारि । लघुप्रशस्तं कटुकं कृमीणां शोफार्शिनामौष्ट्रपयोऽनुकूलम्” ॥ इति हारीते प्रथमस्थानेऽष्टमेऽध्याये ॥ “रूक्षोष्णं क्षीरमुष्ट्रीणामीषत् सलवणं लघु । [] शस्तं वातकफानाहक्रिमिशोथोदरार्शसाम्” ॥ इति चरके सूत्रस्थाने सप्तविंशेऽध्याये ॥ “रूक्षोष्णं लवणं किञ्चिदौष्ट्रं स्वादुरसं लघु । शोफगुल्मोदरार्शाघ्नं कृमि-कुष्ठ-विषापहम्” ॥ इति सुश्रुते सूत्रस्थाने ४५ अध्यायः ॥)
📄 मूल मुद्रित पृष्ठ (1-277-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।