उष्णवारण न० उष्णं वारयतिवृ--णिच्--ल्यु ६ त० । आतपत्रे, छत्रे “यदर्थमम्भोजमिवोष्णवारणम्” कुमा० अस्योत्पत्त्या- दिकम् आतपत्रशब्दे ६४९ पृ० उक्तम् । तल्लक्षणं वृह० सं० दर्शितं यथा “निचितं तु हंसपक्षैः कृकवाकु- मयूरसारसानां च । दौकूलेन नवेन तु समन्ततश्छादितं शुक्लम् । मुक्ताफलैरचितप्रलम्बमालाविलं स्फटिकसू- लम् । षड्ढस्तशुद्धहैमं नवपर्व नगैकदण्डं च । दण्डार्ध- विस्तृतं तत् समावृतं रत्नविभूषितमुदग्रम् । नृपतेस्तदात- पत्रं कल्याणकरं विजयदं च । युवराजनृपतिपत्न्याः सेनापतिदण्डनायकानां च । दण्डोऽर्धपञ्चहस्तः समपञ्च- कृतार्धविस्तारः । अन्येषामुष्णघ्वं प्रसादपट्टैर्विभूषितशिर- स्कम् । व्यालम्बिरत्नमालं छत्रं कार्य्यं च मायूरम् । [] अत्येषां च नराणामातपवारणं तु चतुरस्रम् । समवृत्तदण्डयुक्तं छत्रं कार्य्यं तु विप्राणाम्” उष्णघ्नादयो ऽप्यत्र । तद्धारणे गुणाः सुश्रुते उक्ता यथा “वर्षानिलरजीघर्महिमादीनां निवारणम् । बल्यं चक्षु- ष्यमौजस्यं शङ्करं छत्रधारणम्” ।
📄 मूल मुद्रित पृष्ठ (1381-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।