उष्णोदक न० कर्म्म० । अग्निना तप्तजले काथ्यभानपादशेषा- र्द्धावशेषपादादिहीनके जले तद्गुणादि भावप्र० “अष्टमेनांशशेषेण चतुर्थेनार्द्धकेन वा । अथवा क्वथने- नैव सिद्धमुष्णोदकं वदेत्” तद्गुणाः “श्लेष्मामवातमेदोघ्नं वास्तशोधनदीपनम् । कासश्वासज्वरान् हन्ति पीतमु- ष्णोदकं निशि । क्वाथ्यमानन्तु निर्वेगं निष्फेनं निर्म्मल- न्तथा । अर्द्धावशिष्टं यत्तोयं तदुष्णोदकमुच्यते । ज्वरकास कफश्वासवातपित्ताममेदसाम् । नाशनं वस्तिसंशोधि- पथ्यमुष्णोदकं सदा । त्रिपादशषं सलिलं ग्रीष्मे शरदि शस्यते । हिमेऽर्द्धशेषं शिशिरे तथा वर्षावसन्तयोः” अन्ये तु “निदाघे त्वर्द्धपादोनं पादहीनन्तु शारदम् । शि- शिरे च वसन्ते च हिमे चार्द्धावशेषितम् । अष्टमांशा वशेषन्तु वारि वर्षासु शस्यते” केचित्तु “विधिष्वङ्गेषु वाणेय वेदेषु त्रिषु पक्षयोः । एकभामावशेषं स्यादम्बु वर्षा- दिषु क्रमात्” । अत्र दोषाणां ययोल्वणता हीनता वा तथा व्यवस्था कल्पनीया । “तत् पादहीनं पित्तघ्नम- [] र्द्धहीनन्तु वातनुत् । त्रिपादहीनं श्लेष्मघ्नं संग्राह्यग्नि- करं लघु” । त्रिपादहीनस्य तन्त्रान्तरे आरोग्याम्बुसंज्ञा । तस्य लक्षणगुणास्तु । “पादशेषन्तु यत्तोयमारोग्याम्बु तदुच्यते । आरोग्याम्बु सदा पथ्यं कासश्वासकफापहम् । सद्यो- ज्वरहरं ग्राहि दीपनं पाचनं लघु । आनाहपाण्डु- शूलार्शोगुल्मशोथोदरापहम्” भा० प्र० “दिवा शृतन्तु यत् तोषं रात्रौ तद्गुरुतां व्रजेत्” वैद्यकम् । “संक्रान्तौ वर्षवृद्धौ च ग्रहणे चन्द्रसूर्य्ययोः । सूतके मृतके चैव न स्नायादुष्णवारिणा” स्मृतिः । “क्षेत्रस्थमुद्धृतं वापि शीतमुष्णमथापि वा । गाङ्गं पयः पुनात्याशु पापमा- मरणान्तिकम्” मरीचिः । “नित्यं नैमित्तिकञ्चैव क्रियाङ्गं मलकर्षणम् । तीर्थाभावे च कर्त्तव्यमुष्णोदकपरोदकैः” यमः । “उष्णाम्बुनाधःकायस्य परिषेको मलापहम् । तेनैव षोत्तमाङ्गस्य बलनुत् केशचक्षुषोः” आ० त० आयु- र्वेदः । उष्णोदकेनाचमननिषेध आचमनशब्दे उक्तः ।
📄 मूल मुद्रित पृष्ठ (1382-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।