उस्र पु० वसन्ति रसा अत्र वस--रक् नि० न षत्वम् । १ कि- रणे, सूर्य्यकिरणानां जलाकर्षकत्वेन रसवत्त्वात्तथात्वम् । २ अन्येषां यथायथं रसवत्त्वम् बोध्यम् । २ वृषे । ३ सुरभ्यां ४ लतायां ५ पृथिव्यां च स्त्री निरु० । देवमात्रे पु० उज्ज्व० “उस्रावेतं धूर्षाहौ” यजु० ४, ३३ । “उस्रौ अनड्वाहौ” वेददी० “क्रत्वा नार्वोस्रः पितेव” ऋ० ६, १२, ४ । “उस्रौ वृषभः” भा० “शरैरुस्रैरिवोदीच्यान्नुद्धरिष्यन् रसानिव” रघुः “यो धर्त्ता भुवनानां य उस्राणामपीछा” ऋ० ८, ४१, ५ । [] ७ सूर्ये “प्रमित्रासो न ददुरुस्रो अग्रे” ३, ५८, ४ । “वसति नभसीत्युस्रुः सूर्य्यः” भा० । सूर्य्यरश्मिसम्पर्कात् ८ दिवसे च । “वसुमाँ उस्रयामा” ऋ० ७, ७१, ४, उस्र- यामा दिवसं प्रति गन्ता” भा० उस्रमिच्छति उस्रीयति “उस्र्योमाङ्क्षाटः प्रतिषेधः” वार्त्ति० लङादौ नाट उस्री- त्युक्तेः षत्वाभावश्च ओस्रीयत् । ९ सहवासिनोः अश्विनी- कुमारयोः द्वि० व० । “अग्नयः उस्रा जरन्ते” ऋ० ४, ४, ५, ५, उस्रा सहनिवसन्तावश्विनीसुतौ” भा० ।
📄 मूल मुद्रित पृष्ठ (1382-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।