🕉️ 23 November 2026, Monday · 07:28:42 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

ऊरुस्तंभ
ūrustaṃbha
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
ऊरुस्तंभ संज्ञा पुं॰ [सं॰ ऊरूस्तम्भ] वात का एक रोग जिसमें पैर जकड़ जातो हैं ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
ऊरु—स्तम्भ m. paralysis of the thigh, Suśr.; Kathās.
📄 मूल मुद्रित पृष्ठ (221,2)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
ऊरुस्तम्भ पु० ऊरू स्तभ्राति स्तन्भ--अण् उप० स० । १ रोगभेदे स च रोगः भावप्र० सनिदानपूर्वरूपादिर्दर्शितः यथा “शीतोष्णद्रवसंशुष्कगुरुस्निग्धैर्निषेवितैः । जीर्णाजीर्णत- यायाससंक्षोभस्वप्नजागरैः । सश्लेष्ममेदःपवनः साम- मत्यर्थसञ्चितम् । अभिभूयेतरं दोषमूरू चेत् प्रतिपद्यते । शक्थ्यस्थिनी प्रपूर्य्यान्तः श्लेष्मणा स्तिमितेन सः । तदा स्त- भ्नाति तेनोरूस्तब्धौ शीतावचेतनौ । परकीयाविव गुरू स्याता मतिशयव्यथौ । ध्यानाङ्गमर्द्दस्तैमित्यतन्च्छर्द्यरुचिज्वरैः । संयुतौ पादसदनकृच्छ्रोद्धरणसुप्तिभिः । तमूरुस्तम्भमित्याहु राढ्यपादमथाप” “प्राग्रूपं तस्य निद्रा ऽतिध्यानं स्तिमि- तता ज्वरः । रोमहर्षोऽरुचिच्छर्द्दिर्जङ्घोर्वोः सदनं तथा । वातशङ्किभिरज्ञानात्तत्र स्यात् स्वेहनात् पुनः । पादयोः सदनं सुप्तिः कृच्च्राद्युद्धरणं तथा । जङ्घोरुग्लानिरत्यर्थं शश्वदादाहवेदना । पदं च व्यथते न्यस्तं शीतस्पर्शं न वेत्ति च । संस्थाने पीडने गत्यां चालने चाप्यनीश्वरः । अन्यनेयौ हि सम्भग्नाषूरुपादौ च मन्यते । यदा दा- हार्त्तितोदादौ वेपनः पुरुषो भवेत् । ऊरुस्तम्भस्तदा ह- न्यात् साधयदन्यथा नवम्” अन्यथा दाहाद्युक्तोपद्रवरहितं तमपि नवमुत्पन्नमात्रं साधयेत् । सात्विकभावेन २ ऊ- र्वोःस्तम्भे च । “करिणीवोरुस्तम्भविधृता” काद० ।
📄 मूल मुद्रित पृष्ठ (1386,a)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
ऊरुस्तम्भः, पुं, (ऊरू स्तभ्नाति इति ऊरु + स्तन्भ + अण् ।) ऊरुरोगविशेषः । यथा । अथोरुस्तम्भा धिकारः । तत्रोरुस्तम्भस्य विप्रकृष्टसन्निकृष्टनिदान- सम्प्रात्पिपूर्व्वकं लक्षणमाह । “शीतोष्णद्रवसंशुष्कगुरुस्निग्धैर्न्निषेवितैः । जीर्णाजीर्णे तथायाससंक्षोभस्वप्नजागरैः ॥ सश्लेष्ममेदः पवनः साममत्यर्थस्रञ्चितम् । अभिभूयेतरं दोषमूरू चेत् प्रतिपद्यते ॥ सक्थ्यस्थिनी प्रपूर्य्यान्तःश्लेष्मणा स्तिमितेन सः । तदा स्तभ्नाति तेनोरू स्तब्धौ शीतावचेतनौ ॥ परकीयाविव गुरू स्यातामतिशयव्यथौ । ध्यानाङ्गमर्द्दस्तैमित्यतन्द्राच्छर्द्द्यरुचिज्वरैः ॥ संयुतौ पादसदनकृच्छ्रोद्धरणसुप्तिभिः । तमूरुस्तम्भमित्याहुराढ्यवातमथापरे” ॥ जीर्णाजीर्णे किञ्चिज्जीर्णं किञ्चिदजीर्णं तस्मिन् भोजनमित्यर्थः । अतएव दृढबलेन जीर्णाजीर्णे समश्नत इति पठितम् । तत्र शीतादिभिर्निषे- वितैर्भुक्तैः । संक्षोभेण सञ्चलनेन । स्वप्नेन दिवा । जागरणेन रात्रौ । अभिभूय दूषयित्वा । इतरं दोषं पित्तम् । स्तिमितेन आर्द्रेण द्रुतेनेति यावत् । न तु घनेन । एवंविधेन श्लेष्मणा । सः पवनः । तदा ऊरू स्तभ्नाति तेन स्तम्भेन । अचेतनौ शून्यौ । परकीयाविव अक्रियावित्यर्थः । ध्यानं संमूढता । पादसम्बन्धिनीभिः सदनकृच्छ्रोद्धरणसुप्तिभिश्च संयुक्तौ । अयंसुश्रुतेन महावातव्याधिषु पठितः ॥ * प्राग्रूपमाह । “प्राग्रूपं तस्य निद्रातिध्यानं स्तिमितता ज्वरः । रोमहर्षोऽरुचिश्छर्द्दिर्जङ्घोर्व्वोः सदनं तथा” ॥ * ॥ तस्योपशयमाह । “वातशङ्किभिरज्ञानात्तत्र स्यात् स्नेहनात् पुनः । पादयोः सदनं सुप्तिः कृच्छ्रादुद्धरणं तथा ॥ जङ्घोरुग्लानिरत्यर्थं शश्वदादाहवेदना । पदञ्च व्यथते न्यस्तं शीतस्पर्शं न वेत्ति च ॥ संस्थाने पीडने गत्यां चालने चाप्यनीश्वरः । अन्यनेयौ हि संभग्नावूरू पादौ च मन्यते” ॥ अन्यनेयौ अन्यपुरुषचाल्यौ भवत इत्यर्थः । अज्ञा- नात् अनिश्चयात् स्तम्भ-सुप्ति-कम्पादि-दर्शनेन । वातशङ्किभिः वातव्याधिशङ्किभिः । तत्र ऊरुस्तम्भे । स्नेहनात् स्नेहादिना स्नेहन्या चिकित्सया । पाद- सदनादय ऊरुभग्नोपमत्वात् ते विकाराः स्युः । जङ्घोरुग्लानिः जङ्घोर्व्वोर्गमनादावशक्तिः । आदा- हवेदना ईषद्दाहेन सह वेदना ॥ * ॥ ऊरुस्तम्भस्यारिष्टं लक्षणमाह । “यदा दाहार्त्तितोदार्त्तो वेपनः पुरुषो भवेत् । ऊरुस्तम्भस्तदा हन्यात् साधयेदन्यथा नवम्” ॥ अन्यथा दाहाद्युक्तोपद्रवरहितं तमपि नवमुत्पन्न- [] मात्रं साधयेत् ॥ * ॥ * ॥ अथोरुस्तम्भस्य चिकित्सा । “स्नेहासृक्स्राववमनं वस्तिकर्म्मविरेचनम् । वर्जयेदाढ्यवाते तु यतस्तैस्तस्य कोपनम् ॥ तस्मादत्र सदा कार्य्यं स्वेदनं घनरूक्षणम् । आममेदःकफाधिक्यान्मारुतं नयता समम् ॥ यत् स्यात् कफप्रशमनं न तु मारुतकोपनम् । तत्सर्व्वं सर्व्वदा कार्य्यमूरुस्तम्भस्य भेषजम् ॥ सर्व्वो रूक्षक्रमः कार्य्यस्तत्रादौ कफनाशनः । पश्चाद्वातविनाशाय विधातव्याखिला क्रि ॥ भोज्याः पुराणाः श्यामाककोद्रवोद्दालशालयः । जाङ्गलैरघृतैर्म्मांसैः शाकैश्चालवणैर्हितैः” ॥ उद्दालो वनकोद्रवः । “दद्याद्वास्तूकशाकेन हीनेन लवणेन तु । जीर्णशाल्योदनं रूक्षमूरुस्तम्भवते भिषक् ॥ रूक्षणाद्वातकोपश्चेन्निद्रानाशादिसम्भवः । स्नेहस्वेदक्रमस्तत्र कार्य्यो वातामयापहः ॥ प्रतारयेत् प्रतिस्रोतः सरितं शीतलोदकाम् । सरश्च विमलं शीतं स्थिरतोयं पुनः पुनः ॥ मूलैर्व्वा वाजिगन्धायाः अथवार्कस्य कारयेत् । गाढमुत्सादनं वैद्य ऊरुस्तम्भे सवेदने ॥ त्रिफलाग्रन्थिकव्योषचूर्णं लिह्यात् समाक्षिकम् । ऊरुस्तम्भविनाशाय पुरं मूत्रेण वा पिबेत् ॥ नागरं पिप्पलीञ्चापि गुग्गुलुं वा शिलाजतु । ऊरुस्तम्भी
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬