ऊर्द्ध(र्द्ध्व)मान न० ऊर्द्ध्वमारोप्य मीयते येन मा--करणे ल्युट् । पलकर्षादिमिते पाषाणादौ (वाटखारा) । तेन हि तुलादा- वारोपितेन खर्णादेर्गुरुत्वमुन्मीयते । भावे ल्युट् । २ उच्च- तापरिच्छेदकपरिमाणे च “ऊर्द्ध्वमानं किलोन्मानं परिमाणं तु सर्वतः । आयामस्तु प्रमाणं स्यात् संख्या बाह्या तु सर्वतः” व्या० का० । अयमर्थः । तुलादावारोपितस्य स्वणादेर्गुरुत्वमितिःतुलापरकोटिदेशे आरोपाद्यदुन्मीयते तदुन्मानम् । प्रस्थादिना स्वगताभ्यामारोहपरिणाहाभ्यां व्रीह्यादेः सर्वतोमानात् परिमाणम् । आयामोदैर्घ्यं वस्त्रादेर्जलादेश्च मितिर्हस्तदण्डादिना यत् मीयते तत् प्रमाणम् । सर्व्वतः उक्तप्रकारमानत्रयाद्बाह्या बहिर्भूता संख्या द्वित्वादिरित्यर्थः । “प्रमाणे द्वयसज्दघ्नञ्मात्रचः” पा० विहितौ द्वयसज्दघ्नचौ प्रत्ययौ ऊर्द्धमानादेव “प्रथमश्च द्वितीयश्च ऊर्द्धमाने मतौ मम” वार्त्तिकोक्तेः ।
📄 मूल मुद्रित पृष्ठ (1391,b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।