🕉️ 27 November 2026, Friday · 02:05:07 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

ऋक्षचक्र
ṛkṣacakra
🟢 वाचस्पत्यम्
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
ऋक्षचक्र न० ६ त० । १ नक्षत्रेसमुदाये ऋक्षाणां चक्रमिव गग- तस्थे नक्षत्रात्मके चक्राकारे पदार्थभेदे । ऊडुचक्रशब्दे तद्वि- वृतिः । भचक्रस्य प्रवहवायुना प्रत्यहं पश्चाद्गगनेऽपि ग्रहाणां यथा प्राग्गतित्वं भवेत्तथा सू० सि० रङ्गनाथव्याख्ययोः यथा “अथ ग्रहपूर्व्वगत्युत्पत्तौ कारणमाह । “पश्चाद्व्रजन्तो- ऽतिजवान्नक्षत्रैः सततं ग्रहाः । जीयमानास्तु लम्बन्ते तुल्य- मेव स्वमार्गगाः” सू० सि० । “पश्चादनन्तरं पुनरावृत्त्या पश्चात् पश्चिमदिगभिमुखं नक्षत्रैस्तारकादिभिः सह ग्रहाः सूर्यादयोऽतिजवात् प्रवहवायुसत्वरगतिवशात् सततं निरन्तरं व्रजन्तो गच्छन्तः स्वमार्गगाः स्वकक्षावृत्तस्था जीयमाना नक्षत्रैः पराजिता नक्षत्राणामग्रे गमनात् । अतएव लज्जयेव गुरुभूता इति तात्पर्यार्थः । तुल्यं स- मम् । एवकारादधिकन्यूनव्यवच्छेदः । लम्बन्ते स्वस्था- नात् पूर्वस्मिन् लम्बायमाना भवन्ति । यथा लज्जितः पश्चाद्भवति नाग्रे । तुकारादधोऽधः कक्षाक्रमानुरोधेन शन्यादिग्रहाणां चन्द्रान्तानां गुरुतापचयः शनिरतिगु- रुभूतस्तस्मात् किञ्चिन्न्यूनोगुरुस्तस्मादपि भौम इत्यादि यथोत्तरम् । यस्य कक्षा महती तस्य गुरुत्वाधिक्यं यस्य लध्वी तस्य तदनुरोधेन गुरुताल्पत्वमिति । एतददुक्तं भ- वति । ब्रह्मणा प्रवहवायौ नक्षत्राधिष्ठितो मूर्तो गोलः स्थापितस्तदन्तर्गताः स्वस्वाकाशगोलस्थाः शन्यादयो न- क्षत्राधिष्ठितमूर्तगोलस्थक्रान्तिवृत्तस्थरेवतीयोगतारासन्नरूप- मेषादिप्रदेशसमसूत्रस्थाः स्थापिताः । क्रान्तिवृत्तं तु मेषतुलास्थाने विषुवद्वृत्तलग्नं सम्पातात् त्रिभान्तरितक्रा- न्तिवृत्तप्रदेशाभ्यां चतुर्विंशत्यंशान्तरेण दक्षिणोत्तरौ मक- रकर्कादिरूपौ तदेवं द्वादशराश्यात्मकं वृत्तं ग्रहचारभू- तम् । विषुवद्वृत्तं तु ध्रुवम ध्यस्थं निरक्षदेशोपरिगम् । तत्र प्रवहवायुना स्याधातेन मूर्तो नक्षत्रगोलो नाक्षत्रष- ष्टिषटीभिः परिवर्त्यते । तदन्तर्गतवायुभिस्तदाघातेन वा ग्रहा भ्रमन्तोऽपि नक्षत्रगोलस्थितक्रान्तिवृत्तीयमेषा- दिप्रदेशेन समं न गच्छन्ति वायूनां स्वल्पत्वात् तदाघात- स्याप्यल्पत्वाद्बिम्बानां गुरुत्वाच्च । अतस्तत्स्थानाद्ग्रहाणां लम्बना दृश्यन्ते । अतएव नक्षत्रोदयकाले तेषां द्वितीय- दिने नोदयः किन्तु ग्रहो लम्बितप्रदेशेन वायुना तदनन्त- रमूर्द्धमागच्छतीत्यनन्तरमुदयः । लम्बनं तु शन्यादीनां [] कक्षानुरोधेन गुरुत्वाद्वायूनां तद्घातानां वा कक्षानुरो- धेन बह्वल्पत्वात् तुल्यम् । यद्यपि वायोर्ध्रुवानुरोधेन स्वल्पत्वाद्ग्रहवल्लवम्बनं विषुवद्वृत्ते भवितुमुचितं न क्रा- न्तिवृत्ते । तथा च वक्ष्यमाणक्रान्त्यनुपपत्तिः क्रान्तिवृ- त्तस्थद्वादशराशिभोगेन वक्ष्यमाणानां भगणानामनुपप- त्तिश्च । तथापि वायुनावलम्बितो ग्रहो विषुवन्मार्गगोऽपि तद्विषुवप्रदेशासन्नक्रान्तिवृत्तप्रदेशेन ग्रहाकाशगोल एव स्वसमसूत्रेणाकृष्यत इति नानुपपत्तिः । अतएव स्वमा- र्गगा इति क्रान्तिवृत्तानुसृतस्वाकाशगोलस्थकक्षामार्गगता इत्यर्थकमुक्तमिति मङ्क्षेपः” रङ्ग० । “अथात एव ग्रहाणां लोके प्राग्गनित्वं सिद्धमित्याह । “प्रागगतित्व- मतस्तेषां भगणैः प्रत्यहं गतिः । परिणाहवशाद्भिन्ना तद्व- शाद्भानि भुञ्जते” सू० सि० । “अतोऽवलम्बनादेव तेषां ग्रहाणां प्राग्गतित्वं प्राच्यां दिशि गतिर्येषां ते प्राग्ग- तयस्तद्भावः प्रागतित्वं सिद्धम् । लम्बनस्वरूपैव ग्रहाणां पूर्वगतिरुत्पन्ना लोकैः कारणानभिज्ञैः प्रत्यक्षावगता तच्छक्तिजनिता कल्पितेत्यर्थः । सा कियतीत्यत आह । भगणैरिति । वक्ष्यमाणभगणैः प्रत्यहं प्रतिदिनं गतिः प्राग्गमनरूपा भगणान
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬