🕉️ 21 November 2026, Saturday · 05:48:28 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

ऋणलेख्य
ṛṇalekhya
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
ऋणलेख्य पत्र संज्ञा पुं॰ [सं॰] लेन देन के व्यवहार का वह पत्र जो साक्षियों के सामने लिखा गया हो । दस्तावेज ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
ऋण—लेख्य n. a bond, note of hand.
📄 मूल मुद्रित पृष्ठ (226,1)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
ऋणलेख्य न० ऋणसूचकं लेख्यं लेखपत्रम् । ऋणग्रहण- सूचके व्यवहारोपयोगिनि (स्वत) (तमःसुक) इत्यादि प्रसिद्धे पत्रभेदे । तल्लेखनप्रकारादि मिता० दर्शितं यथा “तत्र लेख्यं द्विबिधं शासनं जानपदं चेति । शा- सनं निरूपितं जानपदमभिधीयते । तच्च द्विविधम् स्वहस्तकृतमन्यकृतं चेति । तत्र स्वहस्तकृतमसाक्षिकम्, अन्यकृत ससाक्षिकम् । अनयोश्च देशाचारानुसारेण प्रामाण्यम् यदाह नारदः । “लेख्यन्तु द्विविधं ज्ञेयं स्वहस्तान्यकृतं तथा । असाक्षिमत्साक्षिमच्च सिद्धि- र्द्देशस्थितेस्तयोरिति” तत्रान्यकृतमाह । “यः कश्चिद- र्थोनिष्णातः स्वरुच्या तु परस्परम् । लेख्यन्तु साक्षिमत् कार्यं तस्मिन् धनिकपूर्वकम्” या० । धनिकाधमर्णयोर्योऽर्थो हिरण्यादिः परस्परं स्वरुच्या इयता कालेनैतावद्देयमि- तीयती च प्रतिमासं वृद्धिरिति निष्णातो व्यवस्थितः त- स्मिन्नर्थे कालान्तरे विप्रतिपत्तौ वस्तुतत्त्वनिर्णयार्थं लेख्यम् साक्षिमदुक्तलक्षणसाक्षियुक्तम् धनिकं पूर्वो यस्मिन् तद्धनिकपूर्वकम् धनिकनामलेखनपूर्वकमिति यावत् कार्यं कर्त्तव्यम् । उक्तलक्षणाः साक्षिणो वा कर्त्तव्याः “कर्त्रा तु यत्कृतं कार्यं सिद्ध्यर्थन्तस्य साक्षिणः । प्रवर्त्तन्ते विवादेषु स्वकृतं वाप्यलेखकमिति” स्मरणात् । अपि च “समामासतदर्द्धाहर्नामजातिस्वगोत्रकैः । सब्रह्मचारिका- त्मीयपितृनामादिचिह्नितम्” या० समा संवत्सरः मासः चैत्रादिस्तदर्द्धः पक्षः शुक्लः कृष्णी वा अहस्तिथिः प्रति- पदादिः । नाम धनिकाधमर्णयोः । जातिः ब्राह्मणादिः स्वगोत्रं वाशिष्ठादिगोत्रमेतैः समादिभिश्चिह्नितम् । तथा सब्रह्मचारिकं बह्वृचादिशाखाप्रयुक्तं गुणनाम बह्वृचः कठ इति । आत्मीयपितृनाम धनिकर्णिकपितृनाम । आदिग्रहणाद्द्रव्य जाति संख्याचारादेर्ग्रहणम् । एतेश्चि- ह्नितं लेख्यं कार्यमिति गतेन सम्बन्धः । किञ्च “समाप्तेऽर्थे ऋणी नाम स्वहस्तेन निवेशयेत् । मतं मेऽसुकपुत्रस्य यद- [] त्रोपरि लेखितम्” या० धनिकाधमर्णयोर्योऽर्थः स्वरुच्या व्यवस्थितः तस्मिन्नर्थे समाप्ते लिखिते ऋणी अधमर्णोना- मात्मीयं स्वहस्तेनास्मिँल्लेख्ये यदुपरि लेखितं तन्ममामुक- पुत्रस्य मतमभिप्रेतमिति निवेशयेत् पत्रे विलिखेत् । तथा “साक्षिणश्च स्वहस्तेन पितृनामकपूर्वकम् । अत्राहम- मुकः साक्षी लिखेयुरिति ते समाः” या० । तस्मिन् लेख्ये ये साक्षिणो लिखिताः तेऽप्यात्मीयपितृनामलेखनपूर्वकमस्मि- न्नर्थे अहममुको देवदत्तः साक्षीति स्वहस्तेनैकैकशो लि- खेयुस्ते च समाः संख्यातो गुणतश्च कर्त्तव्याः । यद्यधमर्णः साक्षी वा लिपिज्ञो न भवति तदाऽधमर्णोऽन्येन साक्षी च साक्ष्यन्तरेण सर्वसाक्षिसन्निधौ स्वमतं लेखयेत् । यथा- ह नारदः “अलिपिज्ञ ऋणी यः स्यात् स्वमतं तु स लेखयेत् । साक्षी वा साक्षिणान्येन सर्वसाक्षिसमीपतः” इति अपि च “उभयाभ्यर्थितेनैतन्मयाह्यमुकसूनुना । लिखितं ह्यमुकेनेति लेखकोऽन्ते ततो लिखेत्” या० । ततो लेखको धनिकाधमर्णिकाभ्यामुभाभ्यां प्रार्थितेन मयाऽ- मुकेन देवदत्तेन विष्णुमित्रसूनुना एतल्लेख्यं लिखित- मित्यन्ते लिखेत्” साम्प्रतं स्वकृतं लेख्यमाह । “विनापि साक्षिभिर्ल्लेख्यं स्वहस्तलिखितं तु यत् । तत्प्रमाणं स्मृतं लेख्यं बलोपधिकृतादृते” या० । यल्लेख्यं स्वहस्तेन लिखितं अधमर्णेन तत् साक्षिभिर्विनापि प्रमाणं स्मृतं मन्वा- दिभिः । बलोपधिकृतादृते । बलेन बलात्कारेण, उप- धिना छललोभक्तोधभयमदादिलक्षणेन यत्कृतं तस्माद्वि- ना । नारदोऽप्याह “मत्ताभियुक्तस्त्रीबालबलात्कार- कृतं च यत् । तदप्रमाणं लिखितं भयोपधिकृतन्तथेति” । तच्चैतत् स्वहस्तकृतं परहस्तकृतञ्च यल्लेख्यं देशाचारानु- सारेण सबन्धकव्यवहारे
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔁 जिनके अर्थ में "ऋणलेख्य" आता है (1)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें