ऋतुमत् त्रि० ऋतुस्तत्कालयोग्यप्रशस्तपुष्पफलादिर्भोभ्यतया- ऽस्त्यस्य ऋतु + प्राशस्त्ये मनुप् । १ प्रशस्तर्तुफलपुष्प- भोक्तरि । “कल्पन्ते हास्मा ऋतव ऋतुमान् भवति यएवं- विद्वानृतुषु पञ्चविधं सामोपास्ते” छा० उ० । “आर्त्तवै र्भोगैश्च सम्पन्नो भवति” भा० । ऋतुकाले २ यजनीयपितृ- भेदे पु० । “अग्निष्वात्तानृतुमतोहवामहे” यजु० १९, ६१ । ऋतुः स्त्रीरजःकालः प्राप्तत्वेनास्त्यस्याः मतुप् स्त्रियां ङीप् । ३ आर्त्तववत्यां स्त्रीधर्म्मिण्यां स्त्रियाम् “काममामरणात् तिष्ठेत् गृहे कन्यर्त्तुमत्यपि” मनुः । “तत्र प्रथमदिवसे ऋतुमत्यां मैथुनगमनमनायुष्यं पुंसां भवति” सुश्रु० । “उपाध्यायानी ते ऋतुमती उपाध्यायश्च प्रोषितोऽस्या यथायभृतुर्बन्ध्यो न भवति तथा क्रियताम्” भा० आ० ३ अ० । ऋतुमत्या धर्म्मश्च आर्त्तवशब्दे उक्तः । विशेषस्त्वयम् “स्त्रीधर्म्मिणी त्रिरात्रन्तु स्वं मुखं नैव दर्शयेत् । स्ववाक्यं श्रावयेन्नापि यावत् स्नाता न शुद्धितः । सुस्नाता भर्त्तृवदनमीक्षतेऽन्यस्य न क्वचित् । अथ वा मनसि ध्यात्वा पतिं भानुं विलोकयेत्” काशीख० ।
📄 मूल मुद्रित पृष्ठ (1440,b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।