ऋतुमुख न० ६ त० । गौणचान्द्रमासप्रथमदिने प्रतिपद्रूपे तिथिभेदे । “चातुमुर्मास्येषु चर्तुमुखश्रुतेः” कात्या० १, २, १३ । “चातुर्मास्येषु च न याथाकाम्यम् कुतः ऋतु- मुखश्रुतेः “ऋतुमुख ऋतुमुखे चातुर्मास्यैर्यजेतेति” वीप्साश्रवणात् ऋतोर्मुखं प्रथमदिनं प्रतिपत् तत्रेत्यर्थः । अत एव वैश्वदेववरुणप्रघासादीनि चातुर्मास्यपर्वाणि प्रति- पद्येव क्रियन्ते न पौर्णमास्यामित्यवसीयते यतः प्रतिपदेव चर्तुमुखं न पौर्णमासीति तथा च श्रूयते” “एषा ह संवत्सरस्य प्रथमा रात्रिर्यत् फाल्गुनी पौर्ण- मासी योत्तरैषोत्तमा या पूर्वा मुखतएव तत् संवत्सरमा- रभते” शत० ब्रा० ६, २, १, १७, कर्कः । “द्वेह वै पौर्ण- मास्यौ द्वे अमावस्ये” इति श्रुतेः योत्तरा पौर्णमासी कृष्णप्रतिपदित्यर्थः । तथा च पौर्णमास्यां दीक्षा प्रतिपदि पौर्णमास्येष्टिसमापनम् ऋतुसन्धिशब्दे विवृतिः । एतच्च पौर्णमासेष्टिविषयम् अमावास्येष्टौ दर्शएव दीक्षा शत० ब्रा० ६, २, २, ३०, २६, “अमावास्यायां दीक्षते” इत्यु- पक्रम्य “या प्रथयामावास्या तस्यां दीक्षित एतद्वै संव- त्सरस्य प्रथमान्यहानि तान्यस्य तदारभते” ३० इत्युक्तेः ।
📄 मूल मुद्रित पृष्ठ (1441,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।