ऋषभकूट पुं० हेमकूटपर्वते भा० व० ११० अ० । “पर्वतं स समासाद्य हेमकूटमनामयम् । अचिन्त्यानद्भुतान् भावान् ददर्श सुबहून् नृप!” इत्युपक्रम्य तदाश्चर्य्यमूलप्रश्ने युधिष्ठिरं प्रति लोमशवाक्यं यथा “अस्मित् नृषभकूटेऽभूदृषभोनम तापसः । अनेकशत- वर्षायुस्तपस्वी कोपनोभृशम् । स वै सम्भाष्यमाणोऽन्यैः कोपाद्गिरिमुवाच ह । य इह व्याहरेत् कश्चिदुपलानु- [] त्सृजेस्त्वमु । वातञ्चाहूय मा शब्दमित्युवाच स तापसः । व्याहरंश्चेह पुरुषो मेघशब्देन वार्य्य ताम् । एवमेतानि कर्माणि राजँस्तेन महर्षिणा । कृतानि कानि चित् क्रो- धात् प्रतिषिद्धानि कानि चित् । नन्दां त्वभिगता देवा पुरा राजन्निति श्रुतिः । अन्वपद्यन्त सहसा पुरुषा देवदर्शिनः । ते दर्शनं त्वनिच्छन्तो देवाः शक्रपुरोगमाः । दुर्गञ्चक्रुरिमं देशं गिरिप्रत्यूहरूपकम् । तदा प्रभृति कौन्तेय! नरा गि- रिमिमं सदा । नाशक्नु वन्नभिद्रष्टुं कुत एवाधिरोहितुम् । नातप्ततपसा शक्यो द्रष्टुमेष महागिरिः । आरोढुं वा ऽपि कौन्तेय । तस्मान्नियत्वाग्भव । इह देवास्तदा सर्वे यज्ञानाजह्रुरुत्तमान् । तेषामेतानि लिङ्गानि दृश्यन्तेऽ- द्यापि भारत! । कुशाकारेव दूर्वेयं संस्तीर्णेव च भूरि- यम् । यूपप्रकाराबहवो वृक्षाश्चेमे विशाम्पते! । देवाश्च ऋषयश्चैव वसन्त्यद्यापि भारते! ।”
📄 मूल मुद्रित पृष्ठ (1451-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।