ऋषिलोक पु० ऋषिभिर्भोग्योलोकः । सत्यलोकसन्निकृष्टस्थे ऋषीणां भोगस्थानभेदे ऋषिकुल्याशब्देउदा० । स च लोकः शनिलोकादूर्द्ध्वं ध्रुवलोकादधोवर्त्तमानः यथाह काशीखण्डे शनिलोकवर्णनानन्तरं “नेत्रयोः प्राघुणीचक्रे ततः सप्तर्षि मल्यलम्” इत्युपक्रम्य “शिवशर्म्मन्! शिवमते! सदा सप्तर्ष- योऽमलाः । वसन्तीह प्रजाः स्रष्टुं विनियुक्ताः प्रजा- सृजा । मरीचिरत्रिः पुलहः पुलस्त्यः क्रतुरङ्गिराः । वसिष्ठश्च महाभागा ब्रह्मणोमानसाः सुताः । सप्त ब्रह्माण इत्येते पुराणे निश्चयं गताः । संभूतिरनसूया च क्षमा प्रीतिश्च सन्नतिः । स्मृतिरूर्ज्जा क्रमादेषां पत्न्योलोकस्य मातरः । एतेषां तपसा चैतद्धार्य्यते भुवनत्रयम् । उत्पाद्य ब्रह्मणा पूर्व्वमेतत् प्रोक्ता महर्षयः । प्रजाः सृजत रे पुत्रा! नानारूपाः प्रयत्नतः” इत्यादिकमुपवर्ण्य “व्रुवतो- रिति संकथां तथा गणयोर्वैष्णवयोर्मुदावहाम् । ध्रुवलोक उपागतस्तयोर्नयनातिथ्यमतथ्यवर्ज्जितः” १८ अ० ।
📄 मूल मुद्रित पृष्ठ (1454,b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।