ऋषि(ष्टि)षेण पु० नृपभेदे । ततो विदा० अञ् । आर्षि (र्ष्टि)षेणः । तद्गोत्रापत्ये पुंस्त्री० स्त्रियां ङीप् ।
ऋष्टिषेण पु० नृपभेदे ततः पाठान्तरे विदा० अञ् शिवा० अण् वा । आर्ष्टिषेण तत्पुत्रे । “आर्ष्टिषेणोहोत्र मृषिर्निषीदन्देवापिर्देवसुमतिं चिकित्वान्” एतामृच- मधिकृत्य यास्केनेतिहासो वर्ण्णितः यथा “तत्रेति- हासमाचक्षते देवापिश्चार्ष्टिषेणः शान्तनुश्च द्वौ कौरव्यौ भारतौ बभूवतुः स शान्तनुः कनीयानभिषेचयाञ्चक्रे दे- वापिस्तपः प्रपेदे ततः शान्तनोराज्ये द्वादश वर्षाणि देवो न ववर्ष तमूचुर्ब्राह्मणाः अधर्मस्त्वया चरितो ज्येष्ठं भ्रा- तरमन्तरेत्यभिषेचितं तस्मात्ते देवो न वर्षतीति” ऋष्टि- षेणस्य नामान्तरं प्रतीप इति । “प्रतिश्रवसः प्रतीपः खलु शैव्यामुपयेमे मनुं नाम तस्यां पुत्रानुत्पादयामास देवाप्रिं शान्तनुं वाह्लीकं चेति देवापिः खलु वाल एवारण्यं विवेश शान्तनुस्तु महीपालो बभूवेति” भा० आ० ९५ । “ऋक्षस्तस्माद्दिलीपोऽभूत् प्रतीपस्तस्य चा- [] त्मजः । देवापिः शान्तनुस्तस्य बाह्लीक इति चात्मजाः । पितृराज्यं परित्यज्य देवापिस्तु वनं गतः । अभवच्छान्त नूराजा प्राङ्महाभिषसंज्ञितः । समा द्वादश तद्राज्ये न ववर्ष यदा विभुः । शान्तनुर्ब्राह्मणैरुक्तः परिवेत्ता यद- ग्रभृक् । राज्यं देह्यग्रजायाशुपरं राष्ट्रविवृद्धये । एव- मुत्तौ द्विजैर्ज्येष्ठं छन्दयामास सोऽब्रवीत् । नाहं राजा त्वमेवाङ्ग विप्रान् वृष्टौ वृणु! प्रभो । तन्मन्त्रिप्रहितैर्विप्रै- र्वेदाद्विभ्रंशितोगिरा । वेदवादातिवादान् वै ततो देवो ववर्ष ह । देवापिर्योगमास्थाय कलापग्राममास्थितः । सोमवंशे कलौ नष्टे कृतादौ स्थापतिष्यति” भाग० ९, २२, १३ श्लो० । अष्टिषेणशब्दस्यावयवार्थो निरु० दर्शितो यथा “आर्ष्टिषेण ऋष्टिषेणस्य पुत्रः इषितसेनस्येति वा । सेना सेश्वरा समानगतिर्वा । पुत्रः पुरु त्रायते निपरणाद्वा पुन्नरकं ततस्त्रायते इति वा” ।
📄 मूल मुद्रित पृष्ठ (1455,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।