ऌ ऌकारः स्वरवर्ण्णभेदः स च दन्तमूलीयः । उदात्तानुदात्त- स्वरितभेदात् त्निविधः अनुनासिकाननुनासिकभेदात् प्रत्येकं पुनर्द्विधेति षड्विधः । तस्य मातृकान्यासे दक्ष- गण्डे न्यस्यतया तच्छब्देनाप्यभिधानम् । तस्य ध्येयरूपं कामधेनुतन्त्रे उक्तं यथा । “ऌकारश्चञ्चलापाङ्गि! कुण्डली परदेवता । अत्र ब्रह्मादयः सर्व्वे त्रयोऽस्ति सततं प्रिये! । पञ्चदेवमयं वर्ण्णं चतुर्ज्ञानमयं सदा । पञ्च प्राणयुतं वर्ण्णं तथागुणत्रयात्मकम् । विन्दुत्रयात्मकं वर्ण्णं पीतविद्युल्लता यथा” । अस्य प्लुतत्वोक्तिश्चिन्त्या एकमात्र त्रिमात्रत्वाभ्यां तयोर्भेदात् । तकाररहितस्तु द्वादशानां बोधक इति सि० कौ० ऋशब्दे विवृतिः ।
ऌ अव्य० ऋगतौ ऋ--क्विप् तुगभावः लत्वम् । १ देवमातरि २ भूमौ ३ पर्व्वते च मेदि० । इति बाचस्पत्ये ऌकारादिशब्दार्थसङ्कलनम् ।
ऌ ऌःस्थाणुः श्रीधरः शुद्धो मेघोधूम्रो वकोवियत् । देव- योनिर्दक्षगण्डोरुद्रः काकोदरी शुभा । शान्तिकृत् स्व- स्तिका शक्रो माया च भ्रामरी शुभा । विश्वेश्वरो दीर्घ- जिह्वा महास्त्री लाङ्गली परा । चन्द्रिका पार्थिवोघूम्या द्विदन्तः कामवर्द्धनः । शुचिस्मिता च नवमी कान्तिरायत- केश्वरः । चित्तस्याकर्षणकरी तुरीया कुलसुन्दरी” ।
ऌ “ऌकारं चञ्चलापाङ्गि! कुण्डलीं परदेवताम् । अत्र ब्रह्मादयः सर्व्वे तिष्ठन्ति सततं प्रिये! । पञ्चदेवमयं वर्णं चतुर्ज्ञानमयं सदा । पञ्चप्राणयुतं वर्णं तथा गुण- त्रयात्मकम् । विन्दुत्रयात्मकं वर्णं पीतविद्युल्लतां यथा ।
📄 मूल मुद्रित पृष्ठ (1458,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।