एककार्य्य त्रि० एकं समानं कार्य्यं यस्य । समानकार्य्यकरे ए- कस्य पाकर्त्तुर्दर्शने अन्यस्य पाककर्त्तुःस्मरणं भवतीति स्मारकगणमध्ये गौत० सू० उक्तम् यथा । “प्रणिधा- न निबन्धाभ्यासलिङ्गलक्षणसादृश्यपरिग्रहाश्रयाश्रितसंब- न्धानन्तर्य्यवियोगैककार्य्यविरोधातिशयप्राप्तिव्यवधानसुखदुः- खे छाद्वेषरागार्थित्वक्रियाधर्म्माधर्म्मनिमित्ते भ्यः” सू० । “एककार्य्यात् एककर्त्तुर्दर्शनात् कर्त्त्रन्तरस्य स्मृतिः” वृत्तिः । एकं कार्य्यं ययोः तयोर्भावः । एककार्य्यत्व- तुल्यकार्य्यकरत्वरूपे सङ्गतिभेदे । तथा च समानकार्य्यका- रित्वं स्वकर्तव्यकार्य्यकारित्वं सङ्गतिः । “सप्रसङ्ग उपोद्घातो हेतुतावसरस्तथा । निर्वाहकैककार्य्यत्वं षोढा सङ्गतिरिष्यते” अनुमानजा० । कर्म्मधार० । एक- स्मिन् कार्य्ये “एककार्य्ये समुद्यन्तौ कृष्णौ युद्धेऽपरा- जितौ” भा० स० १० अ० । “गुणागुणमनासङ्गमेककार्य्य [] मनन्तरम् । एतत्तु ब्रह्मणी वृत्तमाहुरेकपदं द्वयम्” भा० व० २१२ अ० ।
📄 मूल मुद्रित पृष्ठ (1461-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।