एकजाति पुंस्त्री एका जातिर्जन्मास्य । शूद्रजातौ “ब्राह्मणः क्षत्रियोवैश्यस्त्रयोवर्ण्णा द्विजातयः । चतुर्थ एकजातिस्तु शूद्रो नास्ति तु पञ्चमः” मनुना तस्यैकमात्रजन्मत्वप्रति पादनेन द्विजातिवत् सावित्रजन्मराहित्येन एकजातित्वम् । “एकजातिर्द्विजातींस्तु वाचा दारुणया क्षिपन्” मनुः । “एकजातेरयं धर्मो यद्विष्णोर्लिङ्गधारणम्” पुरा० । सु- श्रुतोक्ते ३ कीटभेदे । “एकजातीनतस्तूर्द्ध्वं कीटान् व- क्ष्यामि भेदतः । सामान्यतोदष्टलिङ्गैः साध्यासाध्यक्र- मेण च । त्रिकण्टकः कुणी चापि हस्तिकक्षोऽपरा- जितः । चत्वार एते कणभा व्याख्यातास्त्रीव्रवेदनाः” इति कीटशब्दे विवृतिः । एका तुल्या जातिः सामान्यध- र्म्मोऽस्य । ३ तुल्यधर्म्मयुक्ते त्रि० कर्म्मधा० । ४ तुल्यधर्म्मे स्त्री । तामर्हति छ । एकजातीय समानधर्म्मान्विते त्रि० “एवमेकजातीयानां महाशरीरेभ्यः कृशशरीराः प्रधान- तमाः” सुश्रु० “एकः प्रकारः जातीयर् । एकजातीय । तुल्यप्रकारे त्रि० ।
📄 मूल मुद्रित पृष्ठ (1464,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।