एकत्रिक पु० अन्नाद्यकामकर्त्तव्ये एकाहसाध्ये यागभेदे “एकत्रि- केण त्र्येकेण वान्नाद्यकामेन” आश्व० श्रौ० ९, ५, १३, सू० । “एकत्रिकः त्र्येकश्च द्वावेकाहौ तयोरन्यतरेणान्नाद्यकामो यजेत । एकत्रिक एवं भवति एकस्तोमो बहिष्पवमानः त्रिस्तोमोहोतुराज्यम्, एवं व्यत्यासेन सर्वत्रेतौ स्तोमौ भवतः त्र्येकस्त्वेतावेव स्तोमौ विपरीतौ भवतः त्रिस्तोमो बहिष्पवमानः एकस्तोमोहोतुराज्यम् । एवमेव व्यत्यस्य व्यत्यस्य समापयेत्” नारा० । कात्या० २२, ३, २४, २५, २६ सूत्रैः तस्य साद्यस्क्रत्वेन परिभाषां कृत्वा तद्विधा नाद्युक्तम् । “षट् साद्यस्क्राः” ९ सू० इत्युपक्रम्य पञ्च क्रतूत्क्रमेण प्रदर्श्य षष्ठमेकत्रिकं प्रतिपादयितुं तद्धर्माः प्रथममुक्ताः “साद्यस्क्रधर्म्मा हिरण्यस्रग्वत्” २४ सू० । “साद्यस्क्रशब्देनात्र श्येनोऽभिधीयते तस्य धर्म्मालोहिती- ष्णीषादयः हिरण्यस्रग्वत् । यद्यस्योपमुक्तं तत्तस्य भवति” कर्कः । “साद्यस्क्रधर्म्मा लोहितवस्त्रादय यथा वाजपेये हिरण्यस्रजो यथोपमुक्तं दीयन्ते एवमत्रापि येन यद्व- स्त्रादि परिहितं तत्तस्मै देयम्” संग्र० “एकत्रिके दक्षि- णा षष्टिशतं षट् च २५ सू० । एकत्रिकः षष्ठः साद्यस्क्रः तत्र षट्षष्टिशतं दक्षिणा” कर्कः । इतःपरं साद्यक्रधर्म्माः २६ सूत्रजातैः उक्ताः । तत्र स्तोमादि सामसं० भा० निरूपित यथा “एकत्रिकनामकः कश्चित् क्रतुर्भवति, सर्चैवं श्रूयते “अथैष एकत्रिकस्तस्यैकस्यां बहिष्पवानम् । तिसृषु होतुराज्यम् एकस्यां मैत्रावरुणस्य तिसृषु ब्राह्मणा- च्छंसिनः, एकस्यामच्छावाकस्य तिसृषु माध्यन्दिनः पवमानः” इति । सन्ति प्रकृतौ माध्यन्दिनपवमानस्य त्रयस्तृचाः “उचा ते जातम्” इत्ययं (उ १ प्र, ८ सू० २, ३ ऋ०) प्रथमोगायत्रीच्छन्दस्कः, “पुनानः सोम” इत्ययं (उ १ प्र, ९ सू० १, २, ३ ऋ) द्वितोयोवृहतीच्छन्दस्कृः, “प्र तु [] द्रवा” इत्ययं (उ ११ प्र, १० सू० १, २, ३ ऋ) तृतीयस्त्रि- ष्टुप्छन्दसकः । एतदेवाभिप्रेत्य श्रुतम्, त्रिच्छन्दआवा- पोमाध्यन्दिनः इति । एवं सति एकत्रिकस्य माध्यन्द्रि- नपवमाने तिसृष्विति यदुक्तं तत्र किं त्रयाणां तृचाना- माद्यस्तिस्रः ऋचो ग्राह्याः? किं वा प्रथमतृचस्थाः क्रम- पटितास्तिस्रः? इति संशयः । तत्र त्रिच्छन्दस्त्वश्रुत्या प्रबलया दुबलं पाथक्रमं बाधित्वा प्रथमपक्षो ग्राह्यः इति प्राप्ते, अभिधीयते यदेतत् त्रिच्छन्दस्त्वं तदेतत् प्राकृतम्, तत्र छन्दस्त्रयोपेतस्य तृचत्रयस्योपदिष्टत्वात् विकृतावपि तत्सर्वमतिदिष्टमिति चेत् वाढम्! अत एव पाठक्रमोऽप्य तिदिष्टः, तथा सति प्रक्रान्तगायत्रीच्छन्द- स्कस्य तृचस्य समाप्तौ सत्यां पश्चाद् वृहतीच्छन्दस्के तृचे प्रथमायाः ऋवः प्रारम्भावसरः स चारम्भस्तिसृषु इति विशेषविधानेन बाध्यते, तस्म दाद्य स्तृचोनिखिलोग्राह्यः”
📄 मूल मुद्रित पृष्ठ (1467-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।