🕉️ 20 November 2026, Friday · 01:58:18 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

एकलव्य
ekalavya
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
एकलव्य संज्ञा पुं॰ [सं॰] एक निषाद का नाम जिसने द्रोणचार्य की मूर्ति को गुरु मानकर उसके सामने शस्त्रभ्यास किया था ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
एक—लव्य m. N. of a son of Hiraṇya-dhanus and king of the Niṣādas, MBh.
📄 मूल मुद्रित पृष्ठ (229,1)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
एकलव्य पु० निषादराजस्य हिरण्यधनुषः पुत्रे तत्कथा भारते आ० १३४ अ० । “ततो निषादराजस्य हिरण्यधनुषः सुतः । एकलव्यो म- हाराज । द्रोणमभ्याजगाम ह । न स तं प्रतिजग्राह नैषादिरिति चिन्तयन् । शिष्यं धनुषि धर्म्मज्ञस्तेषा- मेवान्ववेक्षया । स तु द्रोणस्य शिरसा पादौ गृह्य प- रन्तप! । अरण्यमनुसंप्राप्य कृत्वा द्रोणं महीमयम् । तस्मिन्नाचार्य्यवृत्तिञ्च परमामास्थितस्तदा । इष्वस्त्रे यो- गमातस्थे परं नियममास्थितः । परया श्रद्धयोपेतो योगेन परमेण च । विमोक्षादानसन्धाने लघुत्वं पर- माप सः । अथ द्रोणाभ्यनुज्ञाताः कदाचित् कुरुपाण्ड- वाः । रथैर्विनिर्ययुः सर्व्वे मृगयामरिमर्द्दन! । तत्रो पकरणं गृह्य नरः कश्चिद्यदृच्छया । राजन्ननुजगामैकः श्वानमादाय पाण्डवान् । तेषां विरचतां तत्र तत्तत् कर्म्म- चिकीर्षया । श्वा चरन् स वने गूढो नैषादिं प्रतिजग्मि वान् । स कृष्णमलदिग्धाङ्कं कृष्णाजिनजटाधरम् । नैषादिं श्वा समालक्ष्य भषंस्तस्थौ तदन्तिके । तदा त- स्याथ भषतः शुनः सप्त शरान्मुखे । लाघवं दर्शयन्नस्त्रे मुमोच युगपद्यथा । स तु श्वा शरपूर्णास्यः पाण्डवाना- जगाम ह । तं दृष्ट्वा पाण्डवा वीराः परं विस्मयमा- गताः । लाघवं शब्दवेधित्वं दृष्ट्वा तत् परमं तदा । प्रेक्ष्य तं व्रीडिताश्चासन् प्रशशंसुश्च सर्व्वशः । तं ततोऽन्वेषमाणास्ते वने वननिवासिनम् । ददृशुः पाण्डवा राजन्नस्यन्तमनिशं शरान् । न चैनमभ्यजानंस्ते त- दा विकृतदर्शनम् । अथैनं परिपप्रच्छुः को भवान् कस्य वेत्युत । एकलव्य उवाच । निषादाधिपतेर्व्वीरा! हिरण्यधनुषः सुतम् । द्रोणशिष्यञ्च मां वित्त धनुर्व्वे- दकृतश्रमम् । वैशम्पायन उवाच । ते तमाज्ञाय तत्त्वेन पुनरागप्य पाण्डवाः । यथावृत्तं वने सर्व्वं द्रोणाया- चख्युरद्भुतम् । कौन्तेयस्त्वर्ज्जुनो राजन्नेकलव्यमनुस्म रन् । रहो द्रोणं समासाद्य प्रणयादिदंमब्रवीत् । अ- र्ज्जुन उवाच । तदाहं परिरभ्यैकः प्रीतिपूर्व्वमिदं वचः । भवतोक्तो न मे शिष्यस्त्वद्विशिष्टो भविष्यति । अथ कस्मान्मद्विशिष्टो लोकादपि च वीर्य्यवान् । अ- न्योऽस्ति भवतः शिष्यो निषादाधिपतेः सुतः । वैशम्पा- यन उवाच । मुहूर्त्तमिव तं द्रोणश्चिन्तयित्वा विनिश्च- [] यम् । सव्यसाचिनमादाय नैषादिं प्रति जग्मिवान् ददर्श मलदिग्धाङ्गं जटिलं चीरवाससम् । एकलव्यं धनुष्पाणिमस्यन्तमनिशं शरान् । एकलव्यस्तु तं दृष्ट्वा द्रोणमायान्तमन्तिकात् । अभिगम्योपसंगृह्य जगाम शि- रसा महीम् । पूजयित्वा ततो द्रोणं विधिवत् स नि- षादजः । निवेद्य शिष्यमात्मानं तस्थौ प्राञ्जलिरग्रतः । ततो द्रोणोऽब्रवीद्राजन्नेकलव्यमिदं वचः । यदि शिष्योऽसि मे वीर! वेतनं दीयतां मम । एकलव्यस्तु तत् श्रुत्वा प्रीयमाणोऽब्रवीदिदम् । एकलव्य उवाच । किं प्रयच्छामि भगवन्नाज्ञापयतु मां गुरुः । न हि किञ्चिददेयं मे गुरवे ब्रह्मवित्तम! । द्रोण उवाच । यद्यवश्यं त्वया दे- यमेकलव्य! प्रयच्छ मे । एकाङ्गृष्ठं दक्षिणस्य हस्तस्येति मतं मम” । “एकलव्यस्तु तच्छ्रुत्वा वचो द्रोणस्य दारुणम् । प्रतिज्ञामात्मनो रक्षन् सत्ये च नियतः स दा । तथैव हृष्टवदनस्तथैवादीनमानसः । छित्वा ऽविचा- र्य्य तं प्रादात् द्रोणायाङ्गुष्ठमात्मनः । ततः शरन्तु नैषादिरङ्गुलीभिर्व्वप्रकर्षत । न तथा च स शीध्रोऽभूद्यथा पूर्व्वं नराधिप!” । अयञ्च निषादराजस्य पालित पुत्रः श्रुतदेवपुत्रः यथोक्तं हरिवं० ३५ अ० । “श्रुतदेवात् प्रजातस्तु नैषादिर्यः प्रतिश्रुतः । एकलव्योमहाराज! निषादैः परिवर्द्धितः” अतएवांशावतारे “रुक्मी च नृपशार्द्दूल! राजा च जनमेजय”! इत्युपक्रम्य एकलव्य- प्रभृतीन् कतिचिन्नृपानुक्त्वा “गणात् क्रोधवशादेष राजपूगो- ऽभवत् क्षितौ” आ० ६७ अध्याये तस्य राजवंशत
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें