एकशफ पु० एकं शफं खुरो यस्य । एकखुरयुक्ते खरादौ ते च “खरोऽश्वोऽश्वतरो गारः शरभश्चमरी तथा । एते चै- कशफाः क्षत्तः! शृणु पञ्चनखान् पशून्” भा० ३, १०, २२ उक्ताः । “अजाविकं चैकशफं न जातु विषमं भजेत्” मनुः अविक्रेयमध्ये “मद्यं नीलीञ्च लाक्षाञ्च सर्वांश्चैकशफां- स्तथः” मनुः अभक्ष्यमध्ये “अनिर्दिष्टांश्चैकशफान् टिट्टि- [] भञ्च विवर्जयेत्” मनुः “कार्पासकीटजोर्ण्णानां द्विशफैकशफस्य च” “एकशफो वा एष पशुर्यदश्वः” शत० ब्रा० ७, ५, २, २३ । “इमं मा हिंसीरेकशफं पशुं कनिक्रदं वाजिनं वाजिनेषु” यजु० १ १३, ४८ “एकविंशत्यास्तुवतेकशफाः पश- वोऽसृज्यन्त वरुणोऽधिपतिरासीत्” यजु० १४, ३० । “एकबिंशत्यास्तुवतैभिः । दशहस्त्या अङ्गुल्यः दश पाद्याः आत्मैकविंशस्तेनैतदस्तुवतैकशफाः पशवोऽसृजनैकश- फाः पशवोऽत्रासृज्यन्त वरुणोऽधिपतिरासीत्” शत० ब्रा० ८, ४, १३ । एकशफमांसगुणाः “वृंहणं मांस मौरभ्रं पित्तश्लेष्मावहं गुरु । मेदः पुच्छोद्भवं वृष्यमौरभ्र सदृशं गुणैः । औरभ्रवत्स लवणं मांसमेकशफोद्भवम्” सुश्रुते उक्ताः ।
📄 मूल मुद्रित पृष्ठ (1483-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।