ऐकादशिन त्रि० एकादशानां संघ इनि एकादशिनी खलि- नीवत् स्त्रीत्वं सा साधनतयाऽस्त्यस्य अण् । एकादशिनी- साध्यफले । “द्वे त्वेर्वते एकादशिन्यावालभेत य एवैका- दशिनेषु कामस्तस्याप्त्यै” शत० ब्रा० १३, ३, ३, ३ तत्रा- लभ्यद्विविधैकादशसंख्यपपशुभेदाः देवतासहिताः यजु० २९, ५८, ५९ उक्ता यथा “आग्नेयः कृष्णग्रीवः १ सारस्वती मेषो २ बभ्रुः सौम्यः ३ पौष्णः श्यामः ४ शितिपृष्ठो वार्हस्पत्यः ५ शिल्पोवैश्वदेव ६ ऐन्द्रोऽरुणो ७ मारुतः कल्माष ८ ऐन्द्राग्नः संहितो ९ ऽधो रामः सावित्रो १० वारुणः कृष्ण एकशितिपात् ११ पेत्वः” ५८ “अश्वमेधे श्रुतिरस्ति द्वे त्वेवैते एकादशिन्यावालभेतेति” तयोरेकादशिन्योः पशवस्तद्देवताश्च कण्डिकाद्वयेनो- च्यन्ते नेनेमानि ब्राह्मणवाक्यानि द्रव्यदेवताप्रति- पादकानि नतु मन्त्राः । कृष्णा ग्रीवा यस्य स कृष्णग्रीवः पशुराग्नेयः अग्निदेवत्यः १, मेषी स्वारस्वती स्वरस्वती- देवताका २ बभ्रुः पिङ्गलवर्णः पशुः सौम्यः सोमदेवत्यः ३ श्यामः कृष्णवर्णः पौष्णः पूषदेवत्यः ४ शिति श्यामं पृष्ठ- मस्य स शितिपृष्ठः वार्हस्पत्यः वृहस्पतिदेवत्यः ५ शिल्पो विचित्रवर्णो वैश्वदेवः विश्वदेवदेवत्यः ६ अरुणः रक्तः ऐन्द्रः इन्द्रदेवत्यः ७ कल्माषः कर्वुरो मारुतः मरुद्देवत्यः ८ संहितः दृढाङ्गः ऐन्द्राग्नः इन्द्राग्निदेत्यः ९ अधोरामः अधोदेशे श्वेतः सावित्रः सवितृदेवत्यः १० एकः शितिः श्वेतः पादो- यस्य स एकशितिपात् एकपदे श्वेतोऽन्यत्र कृष्णः पेत्वः पतनशीलो वेगवान् पशुः वारुणः वरुणदेवत्यः ११ । एव मेकादश” वेददी० । “अग्नयेऽनीकवते रोहिताञ्जिरन- ड्वानधोरामौ सावित्रौ पौष्णौ रजतनाभी वैश्वदेवौ पिशङ्गौ तूपरौ मारुतः कल्माषः आग्नेयः कृष्णोऽजः सारस्वती मेषी वारुणः पेत्वः” ५९ । “द्वितीयैकादशिनीपशुदेवानाह । रोहिती रक्तोऽञ्जिस्तिलको यस्य सोऽनड्वान् वृषभोऽनीक वतेऽग्नये आलभ्य अनीकं मुखं सैन्यं वा यस्य सोऽनीक वान् तस्मै १ अधोरामौ अधोभागे श्वेतौ द्वौ पशू सावित्रौ सवितृदेवतौ२, ३ । रजतवर्णा नाभिर्ययोस्तौ रजतनाभी द्वौ पौष्णौ पूषदेवत्यौ४, ५ “पिशङ्गौ पीतौ तूपरौ निःशृङ्गौ वैश्व देवौ धिश्वदेवदेवत्यौ ६, ७ कल्माषः कर्वुरो मारुतः ८ कृष्णः श्यामोऽजोमेषः आग्नेयः आग्निदेवत्यः ९ मेषी सारस्वती १० [] पेत्वःवेगवान् वरुणदेवत्यः ११ एवमेकादश” इति वेददीपः
📄 मूल मुद्रित पृष्ठ (1544-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।