ओषधिपति पु० ६ त० । चन्द्रे तस्य किरणेनौषधीनामाप्याय- नात् “अमायां तु सदा सोम ओषधीः प्रतिपद्यते । तमोषधिगतं गावःपिबन्त्यमृतवत् तथा” कालमा० सोमो- त्पत्तिवाक्याच्च तथात्वम् “अपमार्गमोषधिपतिः स्म करैः” । माघः ओषधीनाथौधघीपादयोऽत्र । २ कर्पूरे ३ सोम- मलतायाञ्च । यथा च चन्द्रस्यौषधिपतित्वं तथा हरिवं० २५ अ० अत्रेः सोमोत्पत्तिमुपवर्ण्य उक्तं यथा “तस्य यच्च्यावितं तेजः पृथिवीमन्वपद्यत । ओषध्यस्ताः समुत्प- न्नास्तेजसा प्रज्वलन्त्युत । ताभिर्धार्य्यास्त्रयोलोकाः प्रजा- श्चैव चतुर्विधाः । पोष्टा हि भगवान् सोमो जगतां जग- तीपते! । स लब्धतेजा भगवान् संस्तवैस्तैश्च कर्म्मभिः । तपस्तेपे महाभागः पद्मानां दशतोर्दश । हिरण्य- वर्णा यादेव्यो धारयन्त्यात्मना जगत् । विघुस्तासामभूत् [] देवः प्रख्यातः स्बेन कर्म्मणा । ततस्तस्मै ददौ राज्य ब्रह्मा ब्रह्मविदां वरः । वीजौषधीनां विप्राणामपाञ्च जनमेजय! । सोऽभिषिक्तो महाराज राज्येन द्विजराज- राट् । त्रीन् लोकान् भासयामास खभासा भास्वतां वरः” । काशीख० १४ अ० सोमोत्पत्तिमुक्त्वोक्तम् । “तस्य यत् प्लावितं तेजः पृथिवीमन्वपद्यत । तेनोषध्यः समु द्भूता याभिः संधार्य्यते जगत् । स लब्धतेजा भगवान् ब्रह्मणा वर्द्धितः स्वयम् । तपस्तेपे महाभागः पद्मानां दशतीर्दश । अविमुक्तं समासाद्य क्षेत्रं परमपावनम् । संस्थाप्य लिङ्गममृतं चन्द्रेशाख्यं खनामतः । वीजौष- धीनां तोयानां राजाऽभूदग्रजन्मनाम् । प्रसादाद्देवदेवस्य विश्वेशस्य पिनाकिनः । तुष्टेन देवदेवेन स्वमोलौ यो धृतः सदा । आदाय तां कलामेकां जगत् संजोवनीं पराम् । पश्चाद्दक्षेण शप्तोऽपि मासान्ते क्षयमाप्य च । आप्याय्यतेऽसौ कलया पुनरेव यया शशी” ।
📄 मूल मुद्रित पृष्ठ (1565-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।