ओष्ठकोप पु० ओष्ठस्य कोपो यत्र । सुश्रुतोक्ते मुखरोगभेदे । मुखरोगनिरूपणे तत्रोक्तं यथा “तत्रौष्ठकोपा वातपित्तश्लेष्मसन्निपातरक्तमांसमेदोऽभिधा- तनिभित्ताः । कर्कशौ परुषौ स्तब्धौ कृष्णौ तीव्ररुगन्वितौ । दाल्येते परिपुट्येते ओष्ठौ मारुतकोपतः १ । आचितौ पिडकाभिस्तु सर्षपाकृतिभिर्भृशम् । सदाहपाकसंस्रावौ नीलौ पीतौ च पित्ततः २ । सवर्णाभिस्तु चोष्येते पिडकामि- रवेदनौ । कण्डूमन्तौ पिच्छिलौ च शीतलौ कफजौ ३ गुरू । सकृत्कृष्णौ सकृत्पीतौ सकृच्छ्वेतौ तथैव च । सन्निपातेन ४ विज्ञेयावनेकपिडकाचितौ । खर्ज्जूरफलवर्णाभिः पिडकाभिः समाचितौ । रक्तोपसृष्टौ ५ रुधिरं स्रवतः शोणितप्रभौ । मांसदुष्टौ ६ गुरू स्थूलौ मांसपिण्डवदुद्गतौ । जन्तवश्चात्र मूर्च्छन्ति सृक्वस्योभयतो मुखात् । मेदसा ७ घृतमण्डाभौ कण्डूमन्तौ स्थिरौ मृदू । अच्छस्फटिकसङ्काशमास्रावं स्रवतो गुरू । क्षतजाभौ विदीर्य्येते पाट्येते चाभिघा- ततः ८ । ग्रथितौ च समाख्यातावोष्ठौ कण्डूसमन्वितौ” । ६ त० ओष्ठरोगादयोऽप्यत्र ।
📄 मूल मुद्रित पृष्ठ (1565,b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।