🕉️ 23 November 2026, Monday · 02:27:20 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

ओष्ठरोग
oṣṭharoga
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
ओष्ठरोग संज्ञा पुं॰ [सं॰] ओठ से संबधित कोई भी बीमारी [को॰] ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
ओष्ठ—रोग m. = -कोप above.
📄 मूल मुद्रित पृष्ठ (236,2)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
ओष्ठरोगः, पुं, (ओष्ठस्य रोगः ।) आस्यरोगान्त- र्गतोष्ठभवव्याधिः । स च वातपित्तकफसन्निपात- रक्तमांसमेदोऽभिघातजत्वेनाष्टविधः । तेषां यथा- क्रमं लक्षणानि यथा, -- “कर्कशौ परुषौ स्तब्धौ संप्राप्तानिलवेदनौ । दाल्येते परिपाट्येते ओष्ठौ मारुतकोपतः ॥ चीयेते पिडकाभिश्च सरुजाभिः समन्ततः । सदाहपाकपिडकौ पीताभासौ च पित्ततः ॥ सवर्णाभिस्तु चीयेते पिडकाभिरवेदनौ । भवतस्तु कफादोष्ठौ पिच्छिलौ शीतलौ गुरू ॥ सकृत् कृष्णौ सकृत् पीतौ सकृत् श्वेतौ तथैव च । सन्निपातेन विज्ञेयावनेकपिडकाचितौ ॥ खर्ज्जूरफलवर्णाभिः पिडकाभिर्निपीडितौ । रक्तोपसृष्टौ रुधिरं स्रवतः शोणितप्रभौ ॥ गुरू स्थूलौ मांसदुष्टौ मांसपिण्डवदुन्नतौ । जन्तवश्चात्र मूर्च्छन्ति नरस्योभयतो मुखात् ॥ सर्पिर्मण्डप्रतीकाशौ मेदसा कण्डुरौ गुरू । स्वच्छं स्फटिकसङ्काशमास्रावं स्रवतो भृशम् ॥ तयोर्व्रणो न संरोहेन्मृदुत्वञ्च न गच्छति । ओष्ठौ पर्य्यवदीर्य्येते पाट्येते चाभिघाततः” ॥ इति निदानम् ॥ (“ओष्ठौ च स्फुटितौ यस्य वातिवाहेन वातिकात् । तस्य सर्पिर्म्रक्षणञ्च ओष्ठदारणवारणे ॥ सदाहञ्च भवेत्सौख्यं पैत्तिकं तं विनिर्द्दिशेत् । मधुना नवनीतेन ओष्ठयोर्म्रक्षणं मतम् । लेपनञ्चौष्ठरोगेषु शर्करासहितं दधि । सरक्तमोष्ठरोगञ्च दृष्ट्वा रक्तावसेचनम् ॥ धवार्ज्जुनकदम्बानां प्रलेपः स्यात् सुखावहः” ॥ इति हारीते चिकित्सिते । २५ अध्याये ॥ चिकित्सा यथा ॥ “तत्र खण्डौष्ठ इत्युक्तो वातेनोष्ठो द्विधा कृतः ॥ ओष्ठकोपे तु पवनात् स्तब्धावोष्ठौ महारुजौ । दाल्येते परिपाट्येते परुषासितकर्क्कशौ ॥ पित्तात्तीक्ष्णासहौ पीतौ सर्षपाकृतिभिश्चितौ । [] पिटिकाभिर्महाक्लेदावाशुपाकौ कफात्पुनः ॥ शीतासहौ गुरू शूनौ सवर्णपिटिकाचितौ । सन्निपातादनेकाभौ दुर्गन्धास्रावपिच्छलौ ॥ अकस्मात् म्लानसंशूनरुजौ विषमपाकिनौ । रक्तोपसृष्टौ रुधिरं स्रवतः शोणितप्रभौ ॥ खर्ज्जूरसदृशञ्चात्र क्षीणे रक्तेऽर्व्वुदं भवेत् । मांसपिण्डोपमौ मांसात्स्यातां मूच्छत्क्रमीक्रमात् ॥ तैलाभश्वयथुक्लेदौ सकण्ड्वौ मेदसा मृदु । क्षतजाववदीर्य्येते पाट्येते चासकृत्पुनः ॥ ग्रथितौ च पुनः स्यातां कण्डूलौ दशनच्छदौ । जलवुद्वुदवद्वातकफादोष्ठे जलार्व्वुदम्” ॥ इति वाभटे उत्तरस्थाने । २१ अध्याये ॥ “खण्डोष्ठस्य विलिख्यान्तौ स्यूत्वा व्रणवदाचरेत् । यष्टी-ज्योतिष्मती-रोध्र-श्रावणी-सारिवोत्पलैः ॥ पटोल्या काकमाच्या च तैलमभ्यञ्जनं पचेत् । नस्यञ्च तैलं वातघ्नमधुरस्कन्धसाधितम् ॥ महास्नेहेन वातौष्ठे सिद्धे नाक्तः पिचुर्हितः । देवधूपमधूच्छिष्टगुग्गुल्वमरदारुभिः ॥ यट्याह्वचूर्णयुक्तेन तेनैव प्रतिसारणम् । नाड्योष्ठं स्वेदयेद्दुग्धसिद्धैरेरण्डपल्लवैः ॥ खण्डोष्ठंविहितं नस्यं तस्य मूर्द्ध्नि च तर्पणम् । पित्ताभिघातजावोष्टौ जलौकोभिरुपाचरेत् ॥ रोध्रसर्जरसक्षौद्रमधुकैः प्रतिसारणम् । गुडूची यष्टिपत्तङ्गसिद्धमभ्यञ्जने घृतम् ॥ पित्तविद्रधिवच्चात्र क्रियाशोणितजेऽपि च । इदमेव भवेत्कार्य्यं कर्म्मौष्ठे तु कफोत्तरे ॥ पाठाक्षारमधुव्योषैर्हतास्रे प्रतिसारणम् । धूमनावनगण्डूषाः प्रयोज्याश्च कफच्छिदः ॥ खिन्नं भिन्नं विमेदस्कं दहेन्मेदोजमग्निना । प्रियङ्गुरोध्रत्रिफलामाक्षिकैः प्रतिसारयेत् ॥ सक्षौद्राघर्षणम् तीक्ष्णा भिन्नशुद्धे जलार्व्वुदे । अवगाढेऽतिवृद्धे वा क्षारोऽग्निर्वा प्रतिक्रिया” ॥ इति च वाभटे उत्तरस्थाने ॥ २२ अध्याये ॥ चिकित्सादिविवृतिस्तुमुखरोगशब्दे द्रष्टव्या ॥)
📄 मूल मुद्रित पृष्ठ (1-304-b)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬