औत्पत्तिक उत्पत्त्या भावेन अवियुक्तः ठक् । १ नित्यसंबन्धे शब्दार्थयोः सम्बन्धस्य नित्यावियुक्तत्वात् औत्पत्तिकत्वम् जै सू० भाष्ययोर्दर्शितं यथा “औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धलस्य ज्ञानमुपदेशोऽ- व्यतिरेकश्चार्थेऽनुपलब्धे तत् प्रमाणं वादरायणस्यानपेक्ष- त्वात्” । सू० “औत्पत्तिक” इति नित्यं ब्रूमः, उत्पत्तिर्हि भाव [] उच्यते लक्षणया । अवियुक्तः शब्दार्थेयोर्भावैः सम्बन्धः नोत्पन्नयोः पश्चात् सम्बन्धः, औत्पत्तिकः शब्दस्यार्थेन सम्बन्धः, तस्य अग्निहोत्रादिलक्षणस्य धर्म्मस्य प्रत्य- क्षादिभिरनवगतस्य ज्ञानं निमित्तम् । कथं? । उपदेशो हि भवति, “उपदेशः” इति विशिष्टस्य उच्चारणम् । अव्यतिरेकश्च ज्ञानस्य, न, हि तदुत्पन्नं ज्ञानं विप- र्य्येति! यच्च नाम ज्ञानं न तत् शक्यते वक्तुं “न एत- देवम्” इति, यथा विज्ञायते, न तथा भवति, यथैतन्न विज्ञायते, तथैतदिति, अन्यदस्य हृदये, अन्यद्वाचि स्यात्, एवं वदतो विरुद्धमिदं गम्यते, अस्ति नास्ति वेति । तस्मा- त् तत् प्रमाणमनपेक्षत्वात् । न ह्येवंसति प्रत्ययान्तरम- प्रेक्षितव्यं, पुरुषान्तरं वापि, अयंप्रत्ययोह्यसौ । वाद- रायणग्र हणंवादरायणस्येदं मतं कीर्त्त्यते वादरायणं पूजयितुं, नात्मीथं मतं पर्य्युदसितुम् । उत्पत्तिर्भावः १ स्वकालः तत्र भवः ठक् । २ स्वभावे स्वभावस्य यावद्द्रव्यभावित्वात् तथात्वम् । “मातुरनुग्रहा- दौत्पत्तिकेनैव संहननबलोपेताः पित्रा विभक्ताः” भा० ग० ५, २, २१, तन्निशम्याथ हर्म्यस्था औत्पत्तिकमनीषया भाग० ६, ५, १० ।
📄 मूल मुद्रित पृष्ठ (1570-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।