कञ्जज पु० कञ्जात् विष्णुनाभिपद्मात् जायते जन--ड । हिर- गर्भे चतुमुखे ब्रह्मणि शब्द रत्ना० । यथा च ब्रह्मणोविष्णु- नाभिजातकमलादुद्भवस्तथा वर्णितं भाग० ३, ३, १९, अ० “सोऽन्तःशरीरेऽर्पितभूतसूक्ष्मः कालात्मिकां शक्तिसुदी- रयाणः । उवास तस्मिन् सलिले पदे स्वे यथानलो दारुनि- रुद्धवीर्य्यः । चतुर्युगानाञ्च सहस्रमप्सु स्वपन् स्वयोदीरितया स्वशक्त्या । कालाख्ययासादित कर्मतन्त्रो लोकानपीतान् ददृशे स्वदेहे । तस्यार्थसूक्ष्माभिनिविष्टदृष्टेरन्तर्गतोऽर्थो रजसा तनीयान् । गुणेन कालानुगतेन विद्धः सृष्टुस्त- दाभिद्यत नाभिदेशात् । स पद्मकोषः सहसोदतिष्ठत् का- लेन कर्मप्रतिबोधितेन । स्वरोचिषा तत् सलिलं विशालं विद्योतयन्नर्क इवात्मयोनिः । तल्लोकपद्मं सौ एव विष्णुः प्रावीविशत् सर्व्वगुणावभासम् । तस्मिन् स्वयं वेदमयो विधाता स्वयम्भुवं यं प्रवदन्ति सोऽभूत् । तस्यां सचाम्भो- रुहकर्णिकायामवस्थितोलोकमपश्यमानः । परिक्रमन् व्योम्नि विवृत्तनेत्रश्चत्वारि लेभेऽनुदिशं सुखानि । तस्मात् युगान्तश्वसनावघूर्णजलोर्मिचक्रात् सालिलाद्विरूढम् । अपा- श्रितः कञ्जमु लोकतत्त्वं नात्मानमद्धाविददादिदेवः” ।
📄 मूल मुद्रित पृष्ठ (1618,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।