कण्टकारिका, स्त्री, (कण्टकान् इयर्त्ति ऋच्छति वा कण्टक + ऋ + कर्त्तरि + ण्वुल् । स्त्रियां टाप् इत्वं च । यद्वा कण्टकं ऋच्छति + ऋ कर्म्मण्यण् ततः कन् च ततः प्राग्वत् । तत्फले तु अणि कृते हरीतक्यादित्वात् लुक् ।) स्वनामख्यातक्षुद्रवृक्षः । तत्पर्य्यायः । निदिग्धिका २ स्पृशो ३ व्याघ्रो ४ वृहती ५ प्रचोदनी ६ कुली ७ क्षुद्रा ८ दुष्पर्शा ९ राष्ट्रिका १० । इत्यमरः ॥ अनाक्रान्ता ११ भण्टाकी १२ सिंही १३ धावनिका १४ । इति रत्नमाला ॥ कण्टकारी १५ कण्टकिनी १६ दुष्प- धर्षिणी १७ निदिग्धा १८ धावनी १९ क्षुद्र- कण्टिका २० बहुकण्टा २१ क्षुद्रफला २२ कण्टा- [] लिका २३ चित्रफला २४ । अस्या गुणाः । कटु- त्वम् । उष्णत्वम् । दीपनत्वम् । श्वास-काश-प्रति- श्याय-दोष-कफ-वात-ज्वर-नाशित्वञ्च । इति राज- निर्घण्टः ॥ तृष्णानाशित्वम् । इति राजवल्लभः ॥ तस्याः फलगुणाः । पित्तकफकण्डूकुष्ठकृमिनाशि- त्वम् । लधुत्वम् । उष्णत्वम् । कटुत्वम् । तिक्तत्वञ्च । इति राजनिर्घण्टराजवल्लभौ ॥ (“मुस्तामृतामलक्यश्च नागरं कण्टकारिका । कणाचूर्णान्वितः क्वाथस्तथा मधुसमन्वितः । एकाहिकं वा वेलाद्यं ज्वरजातं व्यपोहति” ॥ इति हारीतः ॥ * ॥ अस्या विशेषश्च कण्टकारी- शब्दे ज्ञातव्यः ॥)
📄 मूल मुद्रित पृष्ठ (2-014-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।