कण्ठेकालः, पुं, (कण्ठे + कालः क्षीरोदमन्थनोद्भव- विषपाननिदर्शनरूपनीलवर्णो यस्य । सप्तम्या अ- लुक् ।) महादेवः । इति त्रिकाण्डशेषः ॥ (कण्ठे जीवानां कण्ठदेशे कालः कालस्वरूपेण वर्त्तते । यद्वा कण्ठदेशपर्य्यन्तं आक्रम्य तमःप्रधाना माया अस्त्यस्य । परमात्मनः मायाशवलितत्रिपादत्वात् तथात्वम् । एष सर्व्वज्ञः सर्व्वान्तर्यामीश्वरः । एत- स्मात् पादत्रयादन्यत् तुरीयं निष्कलं निरुपा- धिकं शिवपादमस्ति ॥ यथा, माण्डुक्योपनिषदि । “सर्व्वं ह्येतद्ब्रह्मायमात्मा ब्रह्म सोऽयमात्मा चतुष्पात्” ॥ २ ॥ “जागरितस्थानो वहिःप्रज्ञः सप्ताङ्ग एकोनविं- शतिमुखः स्थूलभुक् वैश्वानरः प्रथमः पादः” ॥ ३ ॥ “स्वप्नस्थानोऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशति- मुखः प्रविविक्तभुक् तैजसो द्वितीयः पादः” ॥ ४ ॥ “यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति तत्सुषुप्तम् । सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवानन्दमयो ह्यानन्दभूक् चेतोमुखः प्राज्ञस्तृतीयः पादः” ॥ ५ ॥ [] “एष सर्व्वेश्वरः एष सर्व्वज्ञ एषोऽन्तर्याम्येष- योनिः सर्व्वस्य प्रभावाप्ययो हि भूतानाम्” ॥ ६ ॥ “नान्तः प्रज्ञं न वहिःप्रज्ञं नोभयतः प्रज्ञं न प्रज्ञानघनं न प्रज्ञं नाप्राज्ञमदृष्टमव्यवहार्य्यम- ग्राह्यमलक्षणमचिन्त्यमव्यपदेश्यमेकात्मप्रत्ययसारं प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थंमन्यन्ते स आत्मा स विज्ञेयः” ॥ ७ ॥)
📄 मूल मुद्रित पृष्ठ (2-015-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।