कण्डूयन न० कण्डूय--भावे ल्युट् । गात्रघर्षणभेदे (चुल- कान) “कण्डूयनैर्दंशनिवारणैश्च” रघुः । “तद्भावभा- विते चित्ते वल्लभस्य कथादिषु । मोद्वायितमिति प्राहुः- कर्ण्णकण्डूयनादिकम्” । “नेशः कण्डूयनेऽङ्गानामासस- नोत्थनचेष्टने” भाग० ३, ३१, २७ । दीक्षितस्य तत्साधन द्रव्यम् “कृष्णविषाणां त्रिवलि पञ्चवलिं वोत्तानांदशायामाबध्नीते [] तया कण्डूयनम्” कात्या० ७, ३, २९, ३० उक्तम् । “यदा कण्डूरुत्पद्यते दीक्षितेन तया कण्डूयन कार्य्यम्” कर्कः । यजमानपत्न्यास्तु कण्डूयने । “पृथुमुखोयज्ञियवृक्षशङ्कुः क- ण्डूयने” कात्या० ७, ५, ८ । “विपुलाग्रो यज्ञियवृक्षस्यो- दुम्बरपलादेः शङ्कुः पत्न्याः कण्डूयनकर्मणि भवति स च प्रादेशमात्रः” कर्कः । करणे ल्युट् । २ कण्डू- यनसाधने स्त्रियां ङीप् । “कण्डूयन्यभिषेकेण प्रलिम्पते “प्रपर्वतस्येति” कात्या० १५, ६, ८ । कण्डूयनी कृणवि- षाणा” कर्कः ।
📄 मूल मुद्रित पृष्ठ (1633-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।