कंसकृष् पु० कंसं कृष्टवान् कृष--क्विप् ६ त०! वासुदेवे तेन हि तस्य सभामध्ये कर्षणेन नाशनात्तथात्वं यथाह हरि० ८९ अ० । “क्षिप्ते पितरि चुक्रोध नन्दगोपे च केशवः । ज्ञाती- याञ्च व्यथां दृष्ट्वा विसंज्ञाञ्चैव देवकीम् । ससिंह इव वेगेन केगवी जातविक्रमः । आरुरुक्षुर्महाबाहुः कंसनाशार्थ- मच्युनः । रङ्गमध्यादुत्पपात कृष्णः कंसासनान्तिके । अस- जद्वायुना क्षिप्तो यथाखस्थो घनाघनः । ददृशुर्नहि तं सर्वे रङ्गमध्यादवप्लुतम् । केवलं कंसपार्श्वस्थं ददृशुः पुरवासिनः । सोऽपि कंसस्तदायस्तः परीतः कालधर्म्मणा । आकाशादिव गोविन्दं मेने तत्रागतं विभुम् । स कृष्णेनायतं कृत्वा बाहुं परिघसन्निभम् । सूर्द्धजेषु परामृष्टः कंसोवैरङ्गसंसदि । मुकु- टश्चापतत्तस्य काञ्चनो वज्रभूषितः । शिरसस्तत्र कृष्णेन परामृष्टस्य पाणिना । हस्तेन ग्रस्तकेशश्च कंसोनिर्य्यन्त्रतां गतः । तथैव च विसंमूढो विह्वलः समपद्यत । निगृ- हीतश्च केशेषु गतासुरिव निश्वसन् । न शशाक मुखं द्रष्टुं कंसः कृष्णस्य वै तदा । विकुण्डलाभ्यां कर्ण्णाभ्यां च्छिन्नहारेण वक्षसा । विलम्बाभ्याञ्च बाहुभ्यां गात्रावसृत भूषणैः । भ्रंशितेनोत्तरीयेण सहसा चलिताननः । चेष्ट- मानः समाक्षिप्तः कंसः कृष्णेन तेजसा । चकर्षच महारङ्गे मञ्चान्निष्क्रम्य केशवः । केशेषु तं बलाद्गृह्य कंसं क्लेशार्हतां गतम् । कृष्यमाणः स कृष्णेन भोजराजो महाद्युतिः । समाजवाटे परिखां देहकृटां चकार ह । समाजवाटे विक्रीड्य विकृष्य च गतायुषम् । कृष्णो विस- र्ज्जयामास कंसदेहमदूरतः” । “निषेदिवान् कंसकृषः स विष्टरे” माघः । कंसजित्कसारातिकंसहादयोऽप्यत्र
📄 मूल मुद्रित पृष्ठ (1604,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।