ककुत्स्थ पु० वृषरूपधरस्य शक्रस्य ककुदि तिष्ठति स्था क । घुर- ञ्जया--ख्थे इक्ष्वाकुपुत्रशशादषुत्रे नृपभेदे । तन्नामनिरुक्ति- चरिते यथा “इक्ष्वाकौ संस्थिते ताते शशादस्तामथावसत् । शशादस्य तु दायादः ककुत्स्थोनाम थीर्य्यवान । इन्द्रस्य वृषभूतस्य् ककुत्स्थोऽजयतासुरान् । पूर्वमाडीवके युद्वे कक- [] त्स्थस्तेन सः स्मृतः “हरिवं० १० अ० । “शासदीजे हरिं यज्ञैः शशाद इति विश्रुतः । पुरञ्जयस्तस्य सुत इन्द्र- वाह्य इतीरितः । ककुत्स्थ इति चाप्युक्तः शृणु नामानि कर्मभिः । कृतान्त आसीत् समरोदेवान सह दानवैः । पार्ष्णिग्राहेवृतो वीरो देवैर्दैत्यपराजितैः । वचनाद्देवदेवस्य विष्णोर्विश्वात्मनः प्रभोः । वाहनत्वे वृतस्तस्य बभूवेन्द्रो महावृषः । नमन्नथो धनुर्दिव्यमादाय विशिखान् शिता- न् । स्तूयमानस्तमारुह्य युयुत्सुः ककुदि स्थितः । तेज- साप्यायितो विष्णोः पुरुषस्य परात्मनः । प्रतीच्यां दिशि दैत्यानां न्यरुणत्त्रिदशैः पुरम् । तैस्तस्य चाभूत् प्रधनं तुमुलं लोमहर्षणम् । यमाय भल्लैरनयद्दैत्यान् येऽ- भिययुर्मृधे । तस्येषुपाताभिमुखं युगान्ताग्निमिवोल्वणम् । विसृज्य दुद्रुवुर्दैत्याहन्यमानाःस्वमालयम् । जित्वा पुरं धनं सर्व्वमयच्छद्मज्रपाणये । प्रत्ययछत् स राजर्षिरिति नामभिराहुतः” भाग० ९, ६, ११ “इक्ष्वाकुवंश्यः ककुदं नृपाणां ककुत्स्थ इत्याहितलक्षणोऽभूत्” रघुः । तस्यापत्यं शिवा० अण । काकुत्स्थ तदपत्ये । “काकुत्स्थ ईषत् स्मयमान आस्त” भट्टिः ।
📄 मूल मुद्रित पृष्ठ (1605-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।