कक्षसेन पु० “परीक्षितोऽभवन् पुत्राः सर्व्वे धर्म्मार्थकोविदा । कक्षसेनोग्रसेनौ तु चित्रसेनश्च वीर्य्यवान्” भा० आ० ९४ अ० उक्ते परिक्षिन्नृपपुत्रभेदे । अयञ्च परिक्षित् आविक्षतःपुत्रः “आविक्षतः परिक्षित्तू” इत्युपक्रमात् । “अलर्कः कक्षसेनश्च गयो गौराश्व एव चेति” यमसभास- द्वर्ण्णने उक्तम् । तस्याश्रमश्च अवन्तिदेशस्थासितगिरिस्थः । “अवन्तिषु प्रतीच्यां वै” इत्युपक्रम्य “बहुमूलफलोपेतो ह्यसितोनाम पर्व्वतः । आश्रमं कक्षसेनस्य पण्यस्तत्र युधिष्ठिर!” भा० व० ८९ अ० । तस्य च संन्यास- कथा । “कक्षसेनस्तु राजर्षिर्वसिष्ठाय महात्मने । न्यासं यथावत् संन्यस्य जगामाशु महायशाः” भा० अनु० १०७ अ० । तस्य प्रातःस्मर्य्यतामाह भा० अन० १६७ अ० । “कक्षसेनश्च राजर्षिर्येचान्ये नानुकी- र्त्तिताः । कल्यमुत्थाय योनित्यं सन्ध्येऽह्यस्तमयोदये । पठेच्छुचिरनावृत्तः सधर्म्मफलभाग्भवेत्” । “कक्षसेनार्ष्णि- सेनौ च सिन्धुद्वीपश्च पार्थिवः । एते चान्ये च बहवः सिद्धिं परमिकां गताः” भा० अश्व० ९१ अ० । २ ऋषि- भेदे च । यस्यापत्यमभिप्रतारी । “अथ शौनकञ्च कापेय- मभिप्रतारिणं काक्षसेनिं परिबेष्यमाणौ ब्रह्मचारी वि- भिक्षे” छा० उ० कक्षसेनस्यापत्यम् इञ्” भा० ।
📄 मूल मुद्रित पृष्ठ (1607,b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।