🕉️ 25 November 2026, Wednesday · 01:44:29 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

कण्वसुता
kaṇvasutā
🟢 वाचस्पत्यम्
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
कण्वसुता स्त्री कण्वस्य ऋषेः प्रातपालिता सुता । शक- न्तुलायाम् सा च विश्वामित्रात् मेनकायामुत्पन्ना जातमात्रा च तया परित्यक्ता शकुन्तैरक्षिता कण्वेन प्रतिपालिता दुष्मन्तेन गान्धर्व्वविधिना व्यूढा । कण्वदुहित्रादयोप्यत्र । तज्जन्मकथा भा० आ० ७१ अ० “तप्यमानः किल पुरा विश्वामित्रो महातपाः । भृशं वै तापयामास शक्रं सुरगणेश्वरम् । तपसा दोप्तवीर्य्यो ऽयं स्थानान्मां च्यावयेदिति । भीतः पुरन्दरस्तस्मान्मे नकामिदमब्रवीत् । गुणैरप्सरसां दिव्यैर्म्मोनके! त्वं विशि ष्यसे, श्रेयो मे कुरु कल्याणि! यत्त्वां वक्ष्यामि तच्छूणु असावादित्यसङ्काशो विश्वामित्रो महातपाः । तप्यमान- स्तपो घोरं मम कम्पयते ममः । मेनके! तव भारोऽयं विश्वामित्रः सुमध्यमे! । संशितात्मा सुदुर्धर्ष उग्रे वपसि वर्त्तते । स मां न च्यावयेत् स्थानात्तं वै गत्वा प्रलोभय । चर तस्य तपोविध्नं कुरु मे पियमुत्तमम् । रूपयौवनमाधुर्चचेष्टितस्मिवभाषितैः । लोभयित्वा वरा- रीहे! तपसस्तं निवर्त्तय” तत्सहायतया वायुप्रेषणमुक्त्व “कण्व उवाच । एवमुक्तस्तया शक्रः सन्दिदेश सदागतिम् प्रातिष्ठत तदा काले मेनका व्रायुना सह । अथापश्य [] द्वरारोहा तपसा दग्धकिल्विषम् । विश्वामित्रं तप्य- मानं मेनका भीरुराश्रमे । अभिवाद्य ततः सा तं प्रा- क्रीडदृषिसन्निधौ । अपोवाह च वासोऽस्या मारुतः शशि- सन्निभम् । साऽगच्छत्त्वरिता भूमिं वासस्तदभिलिप्सती । स्मयमानेव सव्रीडं मरुता वरवर्णिनी । पश्यतस्तस्य त- त्रर्षेरप्यग्निसमतेजसः । विश्वामित्रस्ततस्तान्तु विषमस्था- मनिन्दिताम् । मृद्धीं वाससि संभ्रान्तां मेनकां मुनि- सत्तमः । अनिर्द्देश्यवयोरूपामपश्यद्विवृतां तदा । तस्या रूपगुणं दृष्ट्वा स तु विप्रर्षभस्तदा । चकार भावसंसर्गां तया कामवशङ्गतः । न्यमन्त्रयत चाप्येनां सा चाप्यैच्छद- निन्दिता । तौ तत्र सुचिरं कालमुभौ व्याहरतां तदा । रममाणौ यथाकामं यथैकदिवसं तथा । जनयामास स मुनिर्म्मेनकायां शकुन्तलाम् । प्रस्थे हिमवतो रम्ये मा- लिनीमभितो नदीम् । जातमुत्सृज्य तं गर्भं मेनका मा- लिनीमनु । कृतकार्य्या ततस्तूर्णमगच्छच्छक्रसंसदम् । तं वने विजने गर्भं सिंहव्याघ्रसमाकुले । दृष्ट्वा शयानं शकुनाः समन्तात् पर्य्यवारयन् । नेमां हिंस्युर्व्वने बालां क्रव्यादा मांसगृद्धिनः । पर्य्यरक्षन्त तां तत्र शकुन्त मेनकात्मजाम् । उपस्प्रष्टुं गतश्चाहमपश्यं शयिता- मिमाम् । निर्जने विपिने रम्ये शकुन्तैः परिवारिताम् । आनयित्वा ततश्चैनां दुहितृत्वे न्यवेशयम् । शरीरकृत् प्राणदाता यस्य चान्नानि भुञ्जते । क्रमेणैते त्रयोऽप्युक्ताः पितरो धर्म्मशासने । निर्ज्जने तु वने यस्मात् शकुन्तै परिवारिता । शकुन्तलेति नामास्याः कृतञ्चापि ततो मया । एवं दुहितरं विद्धि मम विप्र! शकुन्तलाम् । श- कुन्तला च पितरं मत्यते मामनिन्दिता” । तस्याश्च दुष्म- न्तेन गान्धर्वबिधिना परिणयकया तत्रैवोक्ता ।
📄 मूल मुद्रित पृष्ठ (1634-a)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬