कनिष्ठपद न० वीजगणितोक्ते ज्येष्ठापेक्षया न्यूनसख्या- न्विते पदे वर्गमूले । वर्गप्रकृतौ तदानयनप्रकारः स प्रयोजनं तत्र दर्शितं यथा “इष्टं ह्रस्वंतस्य वर्ग्गः प्रकृत्या क्षण्णोयुक्तोवर्जितोवा स येन । मूलं दद्यात् क्षेपकं तं धनर्णं मूलं तच्च ज्येष्ठ- मूलं वदन्ति ॥ ह्रस्वज्येष्ठक्षेपकान्न्यस्य तेषां ता- नन्यान् वाधोनियेश्य क्रमेण । साध्यान्येभ्योभावनाभिर्ब्ब हूनि मूलान्येषां भावना प्रोच्यतेऽतः । वज्वाभ्यासो ज्येष्ठलघ्वोस्तदैक्यं ह्रस्वं लघ्वोराहतिश्च प्रकृत्यां क्षुण्णा ज्येष्ठाभ्यासयुग्ज्येष्ठसूलं तत्राभ्यासः क्षेपयोः क्षेपकः स्यात् ॥ ह्रखं वज्राभ्यासयोरन्तरं वा लघ्वोर्धा- तोयः प्रकृत्या विनिघ्नः । घातो यश्च ज्येष्ठयोस्तद्वियो- गोज्येष्ठं क्षेपोऽत्रापि च क्षेपघातः ॥ इष्टवर्ग्गहृतः क्षेपः क्षेपः स्यादिष्टभाजितः । मूले ते स्तोऽथ वा क्षेपः क्षुण्णः क्षुण्णे तदा पदे ॥ इष्टवर्ग्गप्रकृत्योर्यद्वि- वरं तेन वा भजेत् । द्विघ्नमिष्टं कनिष्टं तत् पदं स्या- देकसंयुतौ ॥ ततोज्येष्ठमिहानन्त्यं भावनाभिस्तथेष्टतः” ॥ उदाहरणम् । “कोवर्ग्गोऽष्टहतः सैकः कृतिः स्याद्गण- कोच्यताम् । एकादशगुणः कोवा वर्गः सैकः कृतिभर्वेत् ॥ प्रथमोदाहरणे न्यासः प्र ८ क्षे १ अत्रैकमिष्टं ह्रस्वं प्रकल्प्य जाते मूले सक्षेपे क १ ज्ये ३ क्षे १ । एषां भावनार्थं न्यासः प्र ८ क १ ज्ये ३ क्षे १ । क १ ज्ये १ क्षे १ वज्राभ्यासौ ज्येष्ठलघ्वोरित्यादि प्रथमकनिष्ठ द्वितीय- ज्येष्ठसूलाभ्यासः ३ द्वितीयकणिष्ठ १ प्रथमज्येष्ठमूलाभ्यास- ३ अनयोरैक्यं ६ कनिष्ठपदं स्यात् कनिष्ठयोराहतिः १ प्रकृतिगुणा ८ ज्येष्ठयोरभ्यासेन ९ अनेन युता १८ ज्येष्ठ पदं स्यात् क्षेपयोराहति क्षेपकः स्यात् १ प्राङ्मूलक्ष- पाणाम् एभिः सह भावलार्थं न्यासः प्र ८ क १ ज्ये ३ क्षे १ । क ६ ज्ये १७ क्षे १ भावनया लब्धे मूले क ३५ ज्ये ९९ क्षे १ एवं पदानामानन्त्यम् द्वितीयोदाहरणे रूपभिष्टं कनिष्ठम् प्रकल्प्र तद्वर्गात्प्रकृति- [] गुणात् ११ रूपद्वयमपास्य मूलं ज्येष्ठं ३ अत्र भावनार्थं न्यासः प्र ११ क १ ज्ये ३ क्षे २ । क १ ज्ये ३ क्षे २ प्राग्वल्लब्धे चतुःक्षेपमूले क ६ ज्ये २० क्षे ४ इष्टवर्ग्ग- हृतः क्षेपैत्यादिना जाते रूपक्षेपमूलेक ३ ज्ये १० क्षे १ अतस्तुल्य भावनया वा कनिष्ठज्येष्ठमूले जाते क ६० ज्ये १९९ क्षे १ एवमनन्तमूलानि । अथवा रूपं कनिष्ठं प्रकल्प्य जाते पञ्चक्षेपपदे क १ ज्ये ४ क्षे ५० अतस्तुल्यभावनया मूले क ८ ज्ये २७ क्षे २५ । इष्टवर्ग्गहृत इत्यादिना पञ्चकभिष्टं प्रकल्प्य जाते रूपक्षेपपदे क (८/५) ज्ये (२७/५) क्षे १ अनयोः पूर्व्वमूलेभ्यः मूलभावनार्थं न्यासःप्र ११ क (८/५) ज्ये (२७/५) क्षे १ । क ३ ज्ये १० क्षे १ भावनया लब्धे मूले क (१६१/५) ज्ये (५६४/५) क्षे १ । अथ वा ह्रस्वं वज्राभ्यासयोरन्तर मित्यादिना कृतया भावनया जाते मूलेक १ ज्ये ४ क्षे ५” चक्रवालेन तदानयनप्रकारः चक्रवालशब्दे वक्ष्यते । क- निष्ठसूलमप्यत्र न० ।
📄 मूल मुद्रित पृष्ठ (1647-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।