🕉️ 23 November 2026, Monday · 06:31:53 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

कन्यादान
kanyādāna
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
कन्यादान संज्ञा पुं॰ [सं॰] विवाह में वर को कन्या देने की रीति । क्रि॰ प्र॰—करना ।—देना ।—लेना ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
कन्या—दान n. giving a girl in marriage, Mn. iii, 35
(कन्यादान, receiving a girl in marriage, W.)
📄 मूल मुद्रित पृष्ठ (249,1)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
कन्यादानं, क्ली, (कन्याया दानं वराय सम्प्रदानम् ।) वराय कन्यासम्प्रदानम् । तद्दानफलादि यथा । यम उवाच । “कन्यां ये तु प्रयच्छन्ति यथाशक्त्या स्वलङ्कृताम् । ब्रह्मदेयां द्विजश्रेष्ठ ! ब्रह्मलोकं व्रजन्ति ते ॥ कन्यादानन्तु सर्व्वेषां दानानामुत्तमं स्मृतम्” ॥ * ॥ तद्ग्रहणे दशकुलत्यागो यथा, -- “महान्त्यपि समृद्धानि गोऽजाविधनधान्यतः । स्त्रीसम्बन्धे दशेमानि कुलानि परिवर्जयेत् ॥ हीनज्ञातिषु पाषण्डे मुने उद्वेगकारिणाम् । छद्मामयसदावाच्यचित्रिकुष्ठिकुलानि च ॥ यस्यास्तु न भवेत् भ्राता न च विज्ञायते पिता । नोपयच्छेत तां प्राज्ञः पुत्त्रिकाधर्म्मशङ्कया” ॥ * ॥ ततोऽष्टप्रकारविवाहानन्तरम् । “कन्यां ये तु प्रयच्छन्ति यथाशक्त्या स्वलङ्कृताम् । विवाहकाले संप्राप्ते यथोक्ते सदृशे वरे । क्रमात् क्रमं कतुशतमनुपूर्व्वं लभन्ति ते ॥ श्रुत्वा कन्याप्रदानन्तु पितरः प्रपितामहाः । विमुक्ताः सर्व्वपापेभ्यो ब्रह्मलोकं व्रजन्ति ते ॥ ब्राह्मेण तु विवाहेन यस्तु कन्यां प्रयच्छति । ब्रह्मलोकं व्रजेच्छीध्रं ब्रह्माद्यैः पूजितः सुरैः ॥ दिव्येन तु विवाहेन यस्तु कन्यां प्रयच्छति । भित्त्वा द्वारन्तु सूर्य्यस्य स्वर्गलोकञ्च गच्छति ॥ गान्धर्ब्बेण विवाहेन यस्तु कन्यां प्रयच्छति । गन्धर्ब्बलोकमासाद्य क्रीडते देववच्चिरम् ॥ शुल्केन दत्त्वा यः कन्यां तां पश्चात् सम्यगर्च्चयेत् । स किन्नरैश्च गन्धर्ब्बैः क्राडते कालमक्षयम् ॥ न मन्युं कारयेत्तासां पूज्याश्च सततं गृहे । ब्रह्मदेया विशेषेण ब्राह्मभोज्या सदा भवेत् ॥ कन्यायां ब्रह्मदेयायामभुञ्जन् सुखमश्नुते । अथ भुञ्जति यो मोहात् भुक्त्वा स नरकं व्रजेत् ॥ अप्रजायाञ्च कन्यायां न भुञ्जीयात् कदाचन । दौहित्रस्य मुखं दृष्ट्वा किमर्थमनुशोचसि ॥ महासत्वसमाकीर्णान्नास्ति ते नरकाद्भयम् । तीर्णस्त्वं सर्व्वदुः खेभ्यः परं स्वर्गमवाप्स्यसि ॥ दौहित्रस्य तु दानेन नन्दन्ति पितरः सदा । यत्किञ्चित् कुरुते दानं तदानन्त्याय कल्प्यते । भातापितुश्च विज्ञेयं तच्छुभस्याभिगामिनः । मातुः पितुर्हिरण्यस्य दौहित्रोऽर्द्धमवाप्नुते ॥ दत्त्वा कन्यां न शोचेत क्षुधितां मुदितां तथा । नग्नां दुःखाभिभूतां वा तथैव कृपणां कृशाम् । कुर्य्यान्मन्युं नचैवास्या आगताञ्चापि पोषयेत् ॥ यद्भूतमर्थयेत् किञ्चित् सर्व्वं तत् प्रतिपादयेत् । अप्रयच्छंन् पतेत् ब्रह्मन् ! नरके नात्र संशयः” ॥ * ॥ “शोचन्ति यामयो यत्र विनश्यत्याशु तत्कुलम् । न भुञ्जन्ति च यत्रैव निर्दहन्त्यप्रपूजिताः ॥ तस्मादेताः समभ्यर्च्च्या भूषणाच्छादनाशनैः । भूतिकामैर्नरैर्नित्यं सुतयुक्तास्तु सर्व्वदा ॥ संतृप्ताः स्युस्तथा पूज्याः श्राद्धे चैवोत्सवेषु च । यस्मिन्नेवं कुले नित्यं कल्याणं तत्र वै ध्रुवम् ॥ इह कीर्त्तिर्भवेत् स्वर्गे परत्र द्विजसत्तम ! । तिलराशिः कृतो यावत् दिवाकरसमं कृतः ॥ [] वर्षान्ते गृह्यमानस्तु तिल एको भवेद् यदा । सोऽक्षयं लभते तावत् ब्रह्यलोकं सनातनम् ॥ शतगव्याः प्रमाणेन सुकृते रोमसञ्चये । विशीर्य्यते तु वा लोकं वर्षे पूर्णे सुताप्रदः । तावत् स्वर्गं लभेत् सोऽपि यावल्लोम्नश्च संक्षयः ॥ महीदातुश्च गोदातुः कन्यादातुस्त्रयो रथाः । कन्यादात्रनुगाः पश्चात्समं यान्ति त्रयो रथाः ॥ कन्यादानं दरिद्रस्य यो ददाति सुसत्कृतैः । पूर्व्वं धर्म्ममवाप्नोति यथावत् विधिकल्पितम् । तस्मात्कन्या प्रयत्नेन दातव्या श्रेय इच्छता” ॥ इत्याद्ये वह्निपुराणे कन्यादाननामाध्यायः ॥
📄 मूल मुद्रित पृष्ठ (2-022-b)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔁 जिनके अर्थ में "कन्यादान" आता है (1)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬