🕉️ 24 November 2026, Tuesday · 04:03:11 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

कपिलादान
kapilādāna
🟢 वाचस्पत्यम्
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
कपिलादान न० ६ त० वक्ष्यमाणविधिना कपिलायाः गीर्दाने तद्विधानादि हेमा० दा० आदित्यपु० । “कपिलां ये प्रयच्छन्ति चेलच्छन्नां स्वलङ्कृताम् । स्वर्णशृङ्गीं रौप्यखुरां मुक्ताता- ङ्गूल भूषिताम् । श्वेतवस्त्रपरिच्छन्नां घण्टास्वनरवैर्युताम् । (घण्टास्वनरवैर्घण्टाशब्दकोलाहलैः) । “सहस्रं योगवां दत्ते कपिलां चापि सुव्रतः । सममेव तयोः पुण्य प्राह ब्रह्मविदांवर! । यावन्ति रोमकूपाणि कपिलाङ्गे भवन्ति हि । तावत्कोटिसहस्राणि वर्षाणां दिवि मोदते । “रुक्मशृङ्गीं रौप्यस्व्वुरां मुक्तालाङ्गूलभूषिताम् । कांस्यो- पदोहनां धेनुं वस्त्रच्छन्नामलङ्कृताम् । दत्त्वाद्विजेन्द्राय नरः स्वर्गलोके महीयते । दशधेनुप्रदानेन तुल्यैका कपि- ला मता” याज्ञवल्क्यः “हेमशृङ्गी शफैरौप्यैः सुशीला वस्त्रसंथुता । सकांस्यपात्रा दातव्या क्षीरिणी गौः सद- [] क्षिणा । दातास्याः स्वर्गमाप्नोति वत्सरान् रोमसंमितान् । कपिला पुनस्तारयति भूयस्त्वासप्तमं कुलम्” व्यासः “रुक्म- शृङ्गीं रौप्यखुरां वस्त्रकांस्योपदोहनाम् । सवत्सां कपिलां दत्त्वा वंशान् सप्तसमुद्धरेत् । यावन्ति तस्या रोमाणि सवत्सा- था भवन्ति हि । मुरभीलोकमासाद्य रमते तावतीः समाः” । लोकोत्तरे “घण्टाचामरसंयुक्ता किंकिणीजालमण्डिता । दिव्यवस्त्रसमायुक्ता हेमदर्पणभूषिता । पयस्विनी सुशीला च तरुणी वत्सकान्विता । कपिलैवं प्रदातव्या शिवस्याग्रे विधानतः” दानमन्त्रस्तु मत्स्यपुराणे “कपिले! सर्वभूतानां पूजनीयाऽसि रोहिणी । तीर्थदेवमयो यस्मादतः शान्तिं प्रयच्छ मे” इति । रोहितवर्ण्णाधिक्यात् रोहिणी । स्वर्ण्णशृङ्गादिमानमुक्तम् हे० दा० कूर्म्मपु० “दश- सौवर्ण्णिके शृङ्गे स्वुराः पञ्चपलान्विताः । पञ्चाशत्प- लिकं ताम्रं कांस्य चैतावदेव तु । वस्त्रन्तु त्रिगुणं धेन्वा दक्षिणा च चतुर्गुणा । एतैरलङ्कृतां धेनुं घण्टाभरणभू- षिताम् । कपिलां विप्रमुख्याय दत्त्वा मोक्षमबाप्नुयात् । द्विगुणोपस्करोपेता महती कपिला स्मृता । दत्ता सा विप्र- मुख्याय स्वर्गमोक्षफलप्रदा । सप्तजन्मकृतात् पापान्मुच्यते दश संयुतः । यान् यान् प्रार्थयते कामांस्तांस्तान् प्राप्नोति मानवः । अन्ते स्वर्गापवर्गौच फलमाप्नोति संयतः” । २ समा- नवर्ण्णवत्ससहितकपिलधेनुदाने च “समान वत् सां कपिलां धेनुं दत्त्वा पयस्विनीम् । सुव्रतां वस्त्रसपन्नाम् ब्रह्मलोके महीयते” हेमाद्रिदा० भारतवाक्यम्
📄 मूल मुद्रित पृष्ठ (1671-a)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬