कपिशी स्त्री कपिश + वर्णवाचित्वात् ङीष् । १ माधव्यां २ सुरा- याञ्च शब्दकल्पद्रुमे मेदिनिजटाधरवाक्यं प्रमाणत्वे नीक्तम् । तच्चिन्त्यं “कपिशस्त्रिषुंश्यावे स्त्री माधव्यां सिह्लके पुमान्” इति मेदिन्यां स्त्रीमात्रोक्तेः ङीषन्ततानु- क्तेश्च । “वर्णात्तोपधादनुदात्तात् तोनः” “अन्यतोङीष्” पा० सूत्रयोः तोपधभिन्नवर्णवाचिनोऽनुदात्तान्तप्रतिपादकात् स्त्रियां ङीष् स्यात् सि० कौ० व्याख्यानात् कपिश- शब्दस्यानुदात्तत्वाभाबेन ङीषोऽप्रसक्तेः “लघावन्ते द्व- योश्च बह्वषो गुरुः” फिट्सूत्रेण तस्य पिशङ्गकल्माषयोरिव गुरुयुक्तत्वाभावेन अनुदात्तत्वामावात् अतएव “ईषद्वद्ध- रजःकणाग्रकपिशा चूते नबा मञ्जरीति” विक्रमोर्वश्याम् टावन्ततया प्रयोगः । तथा च स्त्रीखेऽपि कपिशा इत्येवं- रूपेण भवितव्यं न ङीषन्तेनेति द्रष्टव्यम् । किञ्च उक्त० येदिनिवाक्ये तस्य सुरार्थताऽपि न दृश्यते प्रत्युत “कश्यं मद्यञ्च मैरेयं कपिशं कापिशायनम्” हलायुधोक्तेः मद्ये क्लीवत्वग्रेव । अतएव “ग्राम्यानपश्यत् कपिशं पिशासतः” इति माधे क्लीयतयैव प्रयुक्तम् ।
📄 मूल मुद्रित पृष्ठ (1672,b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।