कमलापति पु० ६ त० । नारायणे समुद्रात् लक्ष्म्या आवि- र्मूतिमुपवर्ण्य तया विवेचनापूर्वकं नारायणस्य पतित्वेन वरणं भाग० ८, ८ अ० वर्णितं यथा “ततस्ततोनूपुरवल्गुशिञ्जितै र्विसर्पती हेमलतेव साबभौ । विलोकयन्ती निरवद्यमात्मनः पदं ध्रुवं चाव्याभिचारिसद्- गुणम् । गन्धर्व्वसिद्धासुरयक्षचारणत्रैपिष्टपेयादिषु ना- न्वविन्दत । नूनं तपो यस्य न मन्युनिर्जयोज्ञानं क्वचि- त्तत्र न सङ्गवर्ज्जितम् । कश्चिन्महांस्तस्य न कामनिर्जयः स ईश्वरः किं परतोव्यपाश्रयः । धर्म्मः कवचित्तत्र न भूत- सौहृदं त्यागः क्वचित्तत्र न मुक्तिकारणम् । वीर्य्यं न पुंसोऽस्त्यजवेगनिष्कृतं न हि द्वितीयो गुणसङ्गवर्ज्जितः । [] क्वचिच्चिरायुर्न हि शोलमङ्गलं क्वचित्तदप्यस्ति न वेद्यमा- युषः । यत्रोभयं कुत्र च सोऽप्यमङ्गलः सुमङ्गलः कश्चन का- ङ्क्षते हि माम् । एवंविमृश्याव्यभिचारिसद्गुणैर्वरं निजै- काश्रयतागुणाश्रयम् । वव्रे वरं सर्व्वगुणैरपेक्षितं रभा मु- कुन्दं निरपेक्षमीप्सितम् । तस्यां स देश उशतीं नवकञ्ज- मालां माद्यन्मधुव्रतवरूथगिरोपघुष्टाम् । तस्थौ निधाय निकटे तदुरः स्वधाम सव्रीडहासविकसन्नयनेन याता । तस्या! श्रियस्त्रिजतोजनको जनन्या वक्षोनिवासमकरोत् परमं विभूतेः । श्रीः स्वाः प्रजाः सकरुणेन निरीक्षणेब यत्र स्थितैधयत साधिपतींस्त्रिलोकान् । शङ्गतूर्य्य- मृदङ्गान । वादित्राणां पृथक् स्वनः । देवानुगानां स- स्त्रीणां नृत्यतां गायतामभूत् । व्रह्मरुद्राङ्गिरोमुख्याः सर्वे विश्वसृजो विभुम् । ईडिरेऽवितथैर्म्मन्त्रैस्तल्लिङ्गः पुष्पव- र्षिणः । श्रिया विलोकिता देवाः सप्रजापतयः प्रजाः । शीलादिगुणसम्पन्ना लेभिरे निर्वृतिं पराम् । निः सत्वा लोलुपा राजन्निरुद्योगा गतत्रपाः । यदा चोपेक्षिता ल- क्ष्म्या बभूवुर्दैत्यदानवाः” । पद्मापतिकमलाकान्तादयोल्प्यत्र ।
📄 मूल मुद्रित पृष्ठ (1682-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।