करन्धम पु० करं धमति ध्मा--खश् मुम् च । १ इक्ष्वाकुवंश्ये खनीनेत्रपुत्रे मुवर्चीनृपे तस्य तन्नामनिरुक्तिः भा० आश्व० ४ अ० । “खनीनेत्रस्यदुर्वृत्ततामुक्त्वा “तमपास्य च तद्राज्ये तस्य पुत्रं सुवर्चसम् । अभ्यषिञ्चन्त राजेन्द्र! मुदिताह्यभव स्तदा । स पितुविक्रियां दृष्ट्वा राज्यान्निरसनं तथा । नि- यतोवर्त्तयामास प्रजाहितचिकीर्षया । ब्रह्मण्यः सत्यवादी च शुचिः शमदमान्वितः । प्रजास्तञ्चान्वरज्यन्त धर्मनित्यं मनीषिणम् । तस्य धर्म्मप्रवृत्तस्य व्यशीर्य्यत् कोषवा- हनम् । तं क्षीणकोषं सामन्ताः समन्तात् पर्य्यपीडयन् । स पीड्यमानो बहुभिः क्षीणकोषाश्ववाहनः । आर्त्तिमा- र्च्छत् परां राजा सह भृत्यैः पुरेण च । नचैनमभिहन्तुं ते शक्नुवन्ति बलक्षये । स प्रवृत्तो हि राजा स धर्मनित्यो युधिष्ठिर! । यदा च परमामार्त्तिं गतोऽसौ सपुरो नृपः । ततः प्रदध्मौ स करं प्रादुरासीत्ततोवरम् । तत- स्तानजयत् सर्वान् प्रत्यमित्रान्नराधिपान् । एतस्मात् का- रणाद्राजन्! यिश्रुतः स करन्धमः । तस्य कारन्धमः पुत्रस्त्रेतायुगमुखेऽभवत्” २ पाणिन्धमे मुखमारुतप्रशेनेन हस्ताध्मायकमात्रे त्रि० ।
📄 मूल मुद्रित पृष्ठ (1695,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।