करम्भ पु० केन जलेन रभ्यते सिच्यते रभ--घञ् मुम् च । १ दधिमिश्रितसक्तुषु अमरः “धानावन्तं करम्भिणमपू- पवन्तम्” ऋ० ३, ५२, १, । “पूषण्वते ते चकृमा करम्भम्” ऋ० ३, ५२, ७, “अतषानिव यवान् कृत्वातानीषदिवोपतप्य करम्भपात्राणि तेषां कुर्व्वन्ति” शत० ब्रा० २, ५, २, ४, २ उदगन्थे “धानाः करम्भः सक्तवः परिवापः पयो दधि” यजु० ९, २१, “करम्भः उदमन्यः” वेददी० । “रूपं वदरमुपवाका करम्भस्य” २२ । “करम्भादिति पूषणम्” ऋ० ६, ५६, १ । ३ भ्रष्टयवमात्रे । “कामधियस्त्वयि रचिता न परमारोहन्ति यथा करम्भवीजानि” भाग० ३, २६, ३७, “करम्भवीजानि भर्जितयववीजानि” श्रीधरः । “करम्भबालुकातापान् कुम्भीपाकांश्च दारुणान” मनुः । [] करम्भपाकार्थं बालुकावदातापोयेषु इति । “करम्भबालुकां तप्तामायसीश्च शिलाः पृथक” भा० स्वर्गा० २ अ० । निरयव- र्ण्णने । द्रव्यावयववैषम्पात् ४ मिश्रगन्धे । “करम्भपूतिसौ- रभ्यशान्तोग्राम्लादिभिः पृथक्” एकोविभिद्यते गन्धः” भाग० ३, २६, ४३, “करम्भोमिश्रगन्ध” श्रीधरः । ५ प्रियङ्गुवृक्षे ६ शतावर्य्याञ्च राजनि० । स्वार्थे कन् करम्भक तत्रार्थे
📄 मूल मुद्रित पृष्ठ (1697-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।