कर्कन्ध स्त्री कर्कं कण्टकं दधाति धा--कू नि० मुम् । १ वदर्य्याम् (कुल) “कर्कन्धूफलमुच्चिनोति शवरी मुक्ताफलाशङ्कया” सा० द० । तस्य पुस्त्वमपि । “पुंसि स्त्रियाञ्च कर्कन्धूः र्वदरी कोलमित्यपि । फेनिलं कुवलं घोटा सौवीरं व- दरं महत् । अजप्रिया कुहा कोली विषमोभयक- ण्टका । पच्यमानं सुमधुर सौवीरं वदरं महत् । सौवीरं वदरं शीतं भेदनं गुरु शुक्रलम् । वृंहण- म्पित्तदाहास्रक्षयतृष्णानिवारणम् । सौवीरं लघु स- पक्वं मधुर कीलमुच्यते । कोलन्तु वदरं ग्राहि रुच्य- वुष्णञ्च वातलम् । कफपित्तकरञ्चापि गुरु सारकमो- रितम् । कर्कन्धूः क्षुद्रवदरं कथितं पूर्व्वसूरिभिः । अम्लं स्यात् क्षुद्रवदरं कषायं मधुरं मनाक् । स्निग्धं गुरु च तिक्तञ्च वातपित्तापहं स्मृतम् । शुष्कं भेद्यग्निकृत्सर्वं लघु- तृष्णाक्लमास्रजित्” फले न० । “दध्नोरूपं कर्कन्धूनि” यजु० १९, २३, कर्कन्धूनां पाकः पील्वादि० कुणच् । कर्कन्धूकुण तत्पाके न० । प्रस्थपरे कर्क्यादि० कर्क- न्धूप्रस्थैत्यादौ नाद्युदास्तता । ततः मध्वा० चतुरर्थ्यां मतुप् । कर्कन्धूमत् तत्सन्निकृष्टदेशादौ त्रि० स्त्रियां ङीप् । कर्कन्धूमतो । तस्या अदूरभवः सुवास्त्वा० अण् । कार्कन्धूमत तददूरदेशभवे त्रि० ।
📄 मूल मुद्रित पृष्ठ (1703,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।