कर्त्तरी स्त्री कृत--घञ् कर्त्तं राति रा--क गौरा० ङीष् । कृपा- ण्याम् पत्रीकृतहिरण्यादेः छेदनसाधने (कातारी) २ अस्त्रभेदे “ददर्शं कर्त्तरीयन्त्रममृतोपरिसंस्थितम् । मनःपवनवेगेन भ्रममाणं महारयम् । अपि स्पृशन्तं मशकं यत् खण्डयति कोटिशः” काशी० । केशादिकर्त्तनसाधने (काँचि) ३ अस्त्रे, “क्रूरमध्यगतश्चन्द्री लग्नं वा क्रूरमध्यगन् । कर्तरो नाम योगोऽयम्” इति ज्योतिषोक्ते ४ योगभेदे च । कर्त्तरोयोग उपयमशब्दे १२५९, ६० तत्प्रति- प्रसविशेषोऽपि उक्तः । कृत--अरि--कर्त्तरिरित्यप्यत्र स्त्री । “क्षरकर्त्तरिसंदशैस्तस्य रोमाणि निर्हरेत्” सुश्रु० । “पापो कर्त्तरिकारकौ” मूहु० चि० । अत्र “ङ्यपोरिति” पा० ह्रस्वः” पीयू० । वस्तुतः क्षुरकर्त्तरिसदंशैरित्यत्र द्वन्द्वे ह्रस्वाप्रसक्तेः ह्रस्वान्तोऽपि कर्त्तरिशब्दोऽस्तीति गम्यते । स्वार्थे कन् । कर्त्तरिकाप्यत्र स्त्री ।
📄 मूल मुद्रित पृष्ठ (1716,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।