कर्पूररस पु० कर्पूर इव कृतोरसः पारदः । पाकविशेषेण कपूरवत्कृते पारदे रसकर्पूरे तत्पाकप्रकारः भावप्र० उक्तो यथा- “अथ कर्पूररसस्य विधिः तत्र पारदस्य संक्षिप्तं शोधनं कत्तव्यम् । शुद्धसूतसमं कुर्य्यात् प्रत्येकं गैरिकं सुधीः । इष्टि- कां खटिकां तद्वत्स्फटिकां सिन्धुजन्म च तल्मीकं क्षार- लवणं भाण्डरञ्जकमृत्तिकाम् । सर्वाण्येतानि सञ्चूर्ण्य वास- [] सा चापि शोधयेत् । खटिका(खरी) (स्थटिका) (फट्किरी) सिन्धुजन्म सैन्धवम् । बल्मीकम् (रुइमाटी) क्षारलवणम् (खारिलोण) भाण्डरञ्जकमृत्तिका (काविसा) । एभिश्चूर्णैर्युतं सूतं यावद्यामं विमर्दवेत् । तच्चूर्णसहितं सूतं स्थाली- मध्ये परिक्षिपेत् । तस्याः स्थाल्यामुखे स्थालीमपरां धा- रयेत् समाम् । सवस्त्रकुटितमृदा मुद्रयेदनयोर्मुखम् । संशो- ष्य मुद्रयेद्भूयोभूयः संशोष्य मुद्रयेत् । सम्यग्विशोष्य मुद्रां तां स्थालीञ्चुल्यां विधारयेत् । अग्निं निरन्तरं दद्याद्याव- द्दिनचतुष्टयम् । अङ्गारोपरितद्यन्त्रं रक्षेद्यत्नादहर्निशम् । शनैरुद्घाटयेद्यन्त्रमूर्द्धस्थालीगतं रसम् । कर्पूरवत् सुविमलं गृह्णीयाद्गुणवत्तरम् । तदेव कुसुमचन्दनकस्तूरीकुङ्कुमै र्युक्तम् । खादन् हरति फिरङ्गव्याधिं सोपद्रवं सपदि । विन्दति वह्नेर्दीप्तिं पुष्टिं वीर्य्यंबलं विपुलम् । रमयति रमणीशतकं रसकर्पूरस्य सेवकः सततम्” ।
📄 मूल मुद्रित पृष्ठ (1724-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।