🕉️ 19 November 2026, Thursday · 08:55:42 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

कर्मज
karmaja
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
कर्मज १ वि॰ [सं॰] कर्म से उत्पन्न ।
२. जन्मांतर में किए हुए पुण्यपाप से उत्पन्न ।
कर्मज २ संज्ञा पुं॰ [सं॰]
१. कलयुग ।
२. वट वृक्ष ।
३. वह रोग जो जन्मांतर के कर्मों का फल हो । जैसे,— क्षयी ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
कर्म—ज mfn. ‘act-born’, resulting or produced from any act (good or bad), Mn. xii, 3 and 101; Daś. &c.
कर्म—ज m. Ficus religiosa
the Kaliyuga (q.v.)
a god, L.
📄 मूल मुद्रित पृष्ठ (258,3)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
कर्म्मज त्रि० कर्मणो कर्मजन्यादृष्टात् जायते जन--ड । कर्महेतुके रोगादौ । रोगादिव्याधयो हि नानाविधाः यथोक्तं भावप्र०- “तेष स्वाभाविकाः केचित्केचिदागन्तवः स्मृताः । मानसाः केचिदाख्याताः कथिताः केऽपि कायिकाः । तत्र स्वाभाविकाः शरीरस्वभाबादेव जाताः । क्षुत्पिपासा सुषुप्त्या च जरामृत्युप्रवृत्तयः । अथवा स्वस्वभावादुत्पत्ते र्जाता स्वाभाविकाः सहजा इति यावत् । ते च जन्मा- न्धत्वादयः । आगन्तवोऽभिघातादिजनिताः । अथवा जन्मोत्तरभाविनः कामक्रोधलोभमोहभयाभिमान- दैन्यपैशुन्यशोकविषादेर्ष्यासूयामात्सर्य्यप्रभृतयः । अथ वोन्मादापस्मारमूर्च्छाभ्रममोहतमः संन्यासप्रभृतयः । कायिकाः पाण्डुरोगप्रभृतयः । कर्मजाः कथिताः केचिद्दोषजाः सन्ति चापरे । कर्मदोषोद्भवाश्चान्ये व्याधयस्त्रिविधाः स्मृताः । तत्र कर्मजाः व्याधय यत्प्राक्तनन्दुष्कर्मभवङ्केवलभोगनाश्यम् प्रायश्चित्तनाश्य वा ततो जाताः न तु दुष्टवातादिदोषेण जनितास्तथा । यथाशास्त्रन्तु निर्णीतो यथाव्याधिचिकित्सितः । न शमं [] याति यो व्याधिः स ज्ञेयः कर्मजो बुधैः । दोषजाः मिथ्याहारविहारप्रकुपितवातपित्तकफजाः । ननु मिथ्या- हारविहारिणामपि प्राक्तनसुकृतेन नैरुज्यं दृश्यत एव । ततो दोषजेष्वपि प्राक्तनं दुष्कर्मैव कारणम् तत् कथं दोषजा इत्युच्यन्ते? । दोषयेष्वपि वस्तुतः आदिकारणं दुष्कर्म वर्त्तत एव किन्तु तत्र मिथ्याहारविहारदूषिता दोषा हेतवो दृश्यन्त इति दोषजा इत्युच्यन्त इति स- माधिः । कर्मदोषीद्भवाः । स्वल्पदोषा गरोयांसस्ते ज्ञेयाः कर्मदोषजाः । अत्रकारणं दुष्कर्मं प्रबलं यतो दो- षाल्पत्वेऽपि व्याधेर्गंरीयस्त्वन्तत्कर्मक्षयादेव क्षीणं भवति । दोषाः स्वल्पा अपि निदानत्वनोक्ता दृश्यन्त एवेति दो- षाणां कारणतां मन्यन्त इति । कर्मंक्षयात् कर्मकृता दोषजाः स्वस्वभेषजैः । कर्मंदोषोद्भवा यान्ति कर्म- दोषक्षयात् क्षयम् । दोषजाः स्वस्वभषजैरिति दोपजे- ष्वादिकारणम् दुष्कर्म तद्भेषजार्थद्रव्यक्षयादिजनितं दुःखभोगेन कटुतिक्तकषायाद्यहृद्यभक्षणादिजनितदुःख- भोगेन च क्षयं यान्ति । शेषा दुष्टा हेतवो दोषास्ते स्वस्व- भेषजैः क्षयं यान्तीत्यर्थः । २ कायिकवाचिकमानसकर्मभवे स्थावरादिजन्मनि “शुभाशुभफलं कर्म्म मनोवाग्देहसम्भवम् । कर्मजागतयो नॄणामुत्तमाधममध्यमाः” ३ कर्म्मजातमात्रे पापादिदोषे च “तथा दहति वेदज्ञः कर्म्मजं दोषमात्मनः” मनुः । क्रियाजन्ये ४ संयोगे ५ विभागे च । “अप्राप्तयोस्तु या प्राप्तिः सैव संयोग ईरितः । कीर्त्तितस्त्रिविधस्त्वेष आद्यो ऽन्यतरकर्मजः । तथोभयक्रियाजन्यो भवेत् संयोगजोऽ- परः । आदिमः श्येनशैलादिसंयोगः परिकीर्त्तितः । नेषयोः सन्निपातो यः स द्वितीय उदाहृतः । कपालत- रुसंयोगात् संयोगस्तरुकुम्भयोः । तृतीयः स्यात् कर्मजो- ऽपि द्विधैव परिकीर्त्तितः । अभिघातो नोदनञ्च शब्द- हेतुरिहादिमः । शब्दाहेतुर्द्वितीयः स्याद्विभागोऽपि त्रिधा भघेत् । एककर्मोद्भवस्त्वाद्यो द्वयकर्मोद्भवोऽपरः । विभागजस्तृतीयः स्यात् तृतीयोऽपि द्विधा भवेत्” भाषा० ६ वेगाख्यसंस्कारे च “मूर्त्तमात्रे तु वेगः स्यात् कर्मजो- वेगजः क्वचित्” भाषा० ७ वटवृक्षे पु० जटा० । ८ कलियुगे पु० शब्दर० । क्रियाजकर्मभवादयोऽप्यत्रार्थे । ९ धर्माधर्म्म- रूपे गुणभेदे अदृष्टे वेदान्तिमते कर्मणः सूक्ष्मावस्थापन्ने १० संस्कारभेदे ११ स्वर्गे १२ नरके च अदृष्टद्वारा तयोः कर्मजन्यत्वात्तथात्वम् ।
📄 मूल मुद्रित पृष्ठ (1728-a)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
कर्म्मजः, पुं, (कर्म्मणो जातः । विषयभोगवासनाव- शात् क्रमशः मलिनायमानो वृत्तिभिर्जात इत्यर्थः । जन + ड ।) कलियुगः । इति शब्दरत्नावली ॥ [] वटवृक्षः । इति जटाधरः ॥ क्रियाजन्ये त्रि । (यथा, मनुः । १२ । १०१ । “तथा दहति वेदज्ञः कर्म्मजं दोषमात्मनः” ॥ कारणभेदेन रोगभेदो यथा । “बहुभिरुपचारैस्तु येन यान्ति समन्ततः । ते कर्म्मजाः समुद्दिष्टा व्याधयो दारुणाः पुनः” ॥ इति हारीते चिकित्सितस्थाने २ अध्यायः ॥)
📄 मूल मुद्रित पृष्ठ (2-046-c)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "कर्मज" आता है (1)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें