कर्म्मस्थान न० कर्मणः व्यापारचिन्तनस्य स्थानम् । ज्योति- षोक्ते लग्नावधिदशमस्थाने । आजीवशब्दे विवृतिः । “लग्नेन्दुभ्यां वीर्य्यभाजः खभं स्यात् कर्मस्थानं खेशदृष्टं युतं सत् । सत्खेटैर्वा युक्तदृष्टं सुवृत्त्यै पापैर्दृष्टं वा युतं दुष्टवृत्त्यै । कर्मास्थोऽगुः स्वगृहे चेत् कुजज्ञकविभिर्युतः । दृष्टो वा वृद्धिहानिभ्यां युतोवित्तकरोमतः । कर्मभे शुभ- खगामिलिताः स्यूराज्यदा न रिपुनीचगृहे चेत् । धर्मधान्य सुखवृद्धिकराश्च खायुषः स्थिरधनस्य च वृद्ध्यै । नीचारिसंस्था अपि पापदृष्टाः पापाश्च कर्मण्यशुभ- प्रदाःस्युः । क्रूरा अपि खभवने शुभाः स्युर्विशे- षतः सद्ग्रहवीक्षिताश्चेत् । शुभदृष्टाः शुभायोगाः कर्मभे सद्ग्रहोद्भवाः । अशुभाः प्रायशः प्रोक्ताः खल- खेटनिरीक्षणात् । चिकित्सकाः शास्त्रविवादकाश्च पुरो- हिता वञ्चनतत्परा वा । नरा अथो स्युर्गणकाः खलैस्तु [] कर्मस्थितैः सद्ग्रहवीक्षितैश्च । तृतीयषष्ठगाः पापा लग्नेन्दुभ्यां शुभा मताः । निधनान्त्यगता नेष्टा विशेषाल्लग्न- संस्थिताः । एकोनविंशे वियुतिं रविः खे, चन्द्रोधन ३, चन्द्रसुतः ४, क्रमेण । त्रिवेदनन्दैकमिते १२ ऽर्क ईज्यो ९ भृगुः १ सुखं खे कुसुतो १२ ऽस्त्रभीतिम्” जातके तच्चिन्ता- प्रकारः ।
📄 मूल मुद्रित पृष्ठ (1771-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।