कलविङ्क(ङ्ग) पुंस्त्री कलं वङ्क(ङ्ग)ते वगि (बकि)--गतौ अच् पृषो० अत इत्त्वम् । १ चटके खगे, अमरः जाति- त्वेऽपि संयोगोपधत्वात् स्त्रियां टाप् । “ग्रीष्माय कलविङ्गान् वर्षाभ्यस्तित्तिरान्” यजु० २४, २० । “कल- [] विङ्कोलोहितादिः पुष्करसादस्ते त्वाष्ट्राः” २४, ३० । अश्व- मेधपशुदेवकथने । अभक्ष्यप्रकरणे अस्याभक्ष्यतोक्ता मनुना “कलविङ्कं प्लवं हंसं चक्राङ्कं ग्रामकुक्कुटम्” बन्मांसगुणाः तस्य संज्ञाभेदश्च सुश्रुते उक्तो यथा- चकोरकलविङ्कमयूरक्रकरोपचक्रकुक्कुटसारङ्गशतपत्रकतित्ति- रकुररबाहुकशरलप्रभृतयस्त्र्याहना विष्करालघवः शीत- मधुराः कषाया दोषशमनाश्च” । मुखपादैर्हननात्त्र्याहनाः । भावप्र० विशेषतस्तन्मांसगुणा उक्ता यथा- चटकः कलविङ्कः स्यात् कुलिङ्गः कालकण्ठकः । कुलिङ्गः शीतलः स्निग्धः स्वादुः शुक्रकफप्रदः सन्निपातहरो वेश्मचटकश्चातिशुक्रलः” २ कलिङ्गवृक्षे मेदि० ।
📄 मूल मुद्रित पृष्ठ (1781-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।