🕉️ 19 November 2026, Thursday · 07:16:44 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

कलस
kalasa
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
कलस संज्ञा पुं॰ [सं॰] दे॰ कलश । उ॰—कीरति कुल कलस अलस तजि सेस सुनाम असेस सिथिल गति है ।—घनानंद, पृ॰ ६०६ ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
कलशः, --सः (शं, --सं) [केन जलेन लश-स-ति Tv.] 1 A pitcher, water pot, a jar, dish; स्ततौ मांसग्रथी कनककलशावित्युपमितौ Bh. 3. 20, 1. 97; स्तनकलस Amaru. 54. ˚जन्मन्, ˚उद्भवः N. of Agastya. --2 A churn. --3 A kind of measure. --4 A rounded pinnacle on the top of a temple. --Comp. (स) उदधिः the ocean.
📄 मूल मुद्रित पृष्ठ (0386-b)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
कलसः, त्रि, (केन जलेन लसति शोभते । क + लस् + अच् ।) कलशः । घटः । इति हेमचन्द्रः ॥ द्रोणपरिमाणे, पुं, । इति वैद्यकपरिभाषा ॥ (“चतुर्भिराढकैर्द्रोणः कलसो नल्वणोर्म्मणः” ॥ इति शार्ङ्गधरे पूर्व्वखण्डे १ अध्याये ॥ “स एव कलसः ख्यातो घटस्तून्मानमेव च” ॥ इति चरके कल्पस्थाने १२ अध्याये ॥)
कलसः, पुं, (केन जलेन लसतौति । लस् + अच् ।) कुम्भः । अस्योत्पत्त्यादिर्यथा, -- “सागरे मथ्यमाने तु पीयूषार्थं सुरासुरैः । [] पीयूषधारणार्थाय निर्म्मिता विश्वकर्म्मणा ॥ कलाः कलास्तु देवानामसितास्ताः पृथक् पृथक् । यतः कृतास्तु कलसास्ततस्ते परिकीर्त्तिताः ॥ नवैव कलसाः प्रोक्ता नामतस्तान्निबोधत । गोह्योपगोह्यो मरुतो मयूखश्च तथापरः ॥ मनोहा कृषिभद्रश्च विजयस्तनुशोधकः । इन्द्रियघ्नोऽथ विजयो नवमः परिकीर्त्तितः ॥ तेषामेव क्रमाद्भूप नव नामानि यानि तु । शृणु तान्यपराण्येव शान्तिदानि सदैव हि ॥ क्षितीन्द्रः प्रथमः प्रोक्तो द्वितोयो जलसम्भवः । पवनाग्नी ततो द्वौ तु यजमानस्ततः परः । कोषसम्भवनामा तु षष्ठः स परिकीर्त्तितः ॥ सोमस्तु सप्तमः प्रोक्तश्चादित्यस्तु तथाष्टमः । विजयो नाम कलसो योऽसौ नवम उच्यते ॥ स तु पञ्चमुखः प्रोक्तो महादेवस्वरूपधृक् । घटस्य पञ्चवक्त्रेषु पञ्चवक्त्रः स्वयं तथा ॥ यथा काष्ठास्थितः सम्यक् वामदेवादिनामतः । मण्डलस्य च पद्मान्तः पञ्चवक्त्रघटं न्यसेत् ॥ क्षितीन्द्रं पूर्व्वतो न्यस्य पश्चिमे जलसम्भवम् । वायव्ये वायवं न्यस्य आग्नेये ह्यग्निसम्भवम् ॥ नैरृत्ये यजमानन्तु ऐश्यान्यां कोषसम्भवम् । सोममुत्तरतो न्यस्य सौरं दक्षिणतो न्यसेत् ॥ न्यस्यैवं कलसांश्चैव तेषु चैतान् विचिन्तयेत् । कलसानां मुखे ब्रह्मा ग्रीवायां शङ्करः स्थितः । मूले तु संस्थितो विष्णुर्म्मध्ये मातृगणाः स्थिताः ॥ दिक्पाला देवताः सर्व्वे वेष्टयन्ति दिशो दश । कुक्षौ तु सागराः सप्त सप्तद्वीपाश्च संस्थिताः ॥ नक्षत्राणि ग्रहाः सर्व्वे तथैव कुलपर्व्वताः । गङ्गाद्याः सरितः सर्व्वा वेदाश्चत्वार एव च । कलसे संस्थिताः सर्व्वे तेषु तानि विचिन्तयेत् ॥ रत्नानि सर्व्ववीजानि पुष्पाणि च फलानि च ॥ वज्रमौक्तिकवैदूर्य्यमहापद्मेन्द्रस्फाटिकैः । सर्व्वधाममयं विल्वं नागरोडुम्बरं तथा ॥ वीजपूरकजम्बीरकाम्राम्रातकदाडिमान् । यवं शालिञ्च नीवारं गोधूमं सितसर्षपम् ॥ कुङ्कुमागुरुकर्पूरमदनं रोचनं तथा । चदनञ्च तथा मांसीमेलां कुष्ठं तथैव च ॥ कर्पूरपत्रचण्डञ्च जलं निर्यासकाम्बुदम् । शैलेयं वदरं जातीपत्रपुष्पे तथैव च ॥ कालशाकं तथा पृक्कां देवीं पर्णकमेव च । वचां धात्रीं समञ्जिष्ठां तुरुष्कं मङ्गलाष्टकम् ॥ दूर्व्वां मोहनिकां भद्रां शतमूलीं शतावरीम् । पर्णानां शवलां क्षुद्रां सहदेवां गजाङ्कुशाम् ॥ पूर्णकोषां सितां पाठां गुञ्जां सुरसिकालसौ । व्यामकं गजदन्तञ्च शतपुष्पां पुनर्णवाम् ॥ ब्राह्मीं देवीं शिवां रुद्रां सर्व्वसन्धानिकां तथा । समाहृत्य शुभानेतान् कलसेषु निधापयेत् ॥ कलसस्य यथा देवान् विधिं शम्भुं गदाधरम् । यथाक्रमं पूजयित्वा शम्भुं मुख्यतया यजेत् ॥ प्रासादेन तु मन्त्रेण शम्भुतन्त्रेण शङ्करम् । प्रथमं पूजयेन्मध्ये नानानैवेद्यवेदनैः ॥ दिक्पालानां धटेष्वेव दिक्पालानपि पूजयेत् । [] पूब्बं वहिःस्थापितेषु ग्रहाणां कलसेषु च ॥ नवग्रहान् पूजयेत्तु मातॄर्मातृघटेषु च । सर्व्वे देवा घटे पूज्या घटस्तेषां पृथक् पृथक् ॥ नवैव तत्र पूर्व्वोक्ताः स्मृता मुख्यतमा नृप । भक्ष्यैर्भोज्यैश्च पेयैश्च पुष्पैर्नानाविधैः फलैः ॥ यावकैः पायसैश्चापि यथासम्भवयोजितैः । पुष्यस्नानाय नृपतिः पूजयेत् सकलान् सुरान्” ॥ इति कालिकापुराणे पुष्याभिषेकः ८७ अ- ध्यायः ॥ * ॥ अन्यत् धारकशब्दे द्रष्ठव्यम् ॥
⟦pdf:
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें